________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyarmandie
HA
उत्तरा
सटीकं
॥१०२०॥
CHARACROCACANCE
यथाख्यातचारित्रं निर्मलं कुरुते. ननु यथाख्यातचारित्रमविद्यमानं कथं निर्मलं भवति ? अत्रोत्तरंयथाख्यातचारित्रं सर्वथाऽविद्यमानं नास्ति, अविद्यमानस्य निर्मलाऽसंभवात् . तस्माद्यथाख्यातचारित्रं पूर्वमस्ति, परं चारित्रमोहनीयेन मलिनमस्ति. तदेव यथाख्यातचारित्रं चारित्रमोहोदयनिर्जरेण निर्मलीकुरुते. यथाख्यातचारित्रं विशोध्य चतुरः केवलिसत्कर्माशान् , चत्वारि विद्यमानकर्माणि घनघातीनि वेदनीयायुर्नामगोत्रलक्षणानि भवोपग्राहीणि क्षपयति. ततः सिद्धयति बुद्धयति च.।५८ा एवं समाधारणात्रयमुक्त्वा यथाक्रमं ज्ञानादित्रयस्य संपन्नतायाः फलं प्रश्नपूर्वकमाह
॥ मूलम् ॥-नाणसंपन्नयाएणं भंते जीवे किं जणयइ? नाणसंपन्नयाएणं जीवे सबभावाभिगमं जणयइ, नाणसंपन्नेणं जीवे चाउरंतसंसारकंतारे न विणस्सइ, जहा सूई ससुत्ता पडिया न विणस्सई. तहा जीवोवि ससुत्तो संसारे न विणस्सइ, णाणविणयतवचरित्तजोगं संपाउणइ. ससमयपरसमयविसारए संघायणिजे भवइ. ॥ ५९॥ व्याख्या-हे भदंत ! ज्ञानसंपन्नतया, ज्ञानस्य श्रुतज्ञानस्य संपन्नता श्रुतज्ञानसंपत्तिस्तया जीवः किं फलं जनयति ? तदा गुरुराह-हे शिष्य ! श्रुतज्ञा
SHARE
॥१०२०॥
For Private And Personal Use Only