________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥१०१९॥
दर्शनस्य सम्यक्त्वस्य ये पर्यवा भेदास्तान् विशोधयति निर्मलीकरोति. यतो हि वाकसमाधारणं कुर्वन्द स्वाध्यायं करोति, स्वाध्यायं कुर्वन् द्रव्यानुयोगाद्यभ्यासं विदधदनेकनयज्ञो भृत्वा शंकादिदोषान्निवारयति. अतः सम्यक्त्वं निर्मलं करोति. यतो वाक्साधारणदर्शनपर्यवान् विशोध्य सुलभवोधित्वं निवर्तयति. सुलभबोधिः परभवे जैनधर्मप्राप्तिर्यस्य स सुलभबोधिस्तस्य भावः सुलभबोधित्वं, तदुत्पादयति, दुर्लभबोधित्वं निर्जरयति क्षपयति. ॥ ५७ ॥ अथ कायसमाधारणाया अपि फलमाह
॥ मूलम् ॥-कायसमाहारणयाएणं भंते जीवे किं जणयइ ? कायसमाहारणयाएणं जीवे चरित्तपजवे विसोहेइ, चरित्तपजवे विसोहित्ता अहस्कायचरितं विसोहेइ, अहरुकायचरितं विसोहित्ता चत्तारि केवलकम्मं खवेइ, तओ पच्छा सिज्झइ बुज्झइ. ॥ ५८ ॥ व्याख्या-हे भगवन् ! कायसमाधारणया जीवः किं जनयति? कायस्य समाधारणा संयमयोगेषु देहस्य सम्यग्व्यवस्थापना कायसमाधारणा, तया जीवः किं फलमुत्पादयति ? तदा गुरुराह-हे शिष्य ! कायसमाधारणया चारित्रपर्यवान् चारित्रभेदान् क्षायोपशमिकान् विशोधयति. चारित्रपर्यवान् विशोध्य यथाख्यातचारित्रं विशोधयति,
॥१०१९॥
For Private And Personal Use Only