________________
Shri Mahavir Jain Aradhana Kendra
www kobirth.org
Acharya Shri Kailassagersuri Gyarmandie
सटीक
उत्तरा॥१०१७॥
जीवः कि फलं जनयति ? गुरुराह-हे शिष्य! वचोगुप्ततया निर्विकारत्वं विरागभावमुत्पादयति. निर्विकारो जीवो वाग्गुप्तो गुप्तवचनश्च सर्वविकथात्यागाद्वाग्निरोधी वाग्गुप्तिमान् सन्नध्यात्मयोगसाधनयुक्तश्चापि भवति. आत्मन्यधितिष्टतीत्यध्यात्मं मनस्तस्य योगाः शुभव्यापारा धर्मध्यानादयस्तेषां साधनमेकाग्यमध्यात्मयोगसाधनं, तेन युक्तोऽध्यात्मयोगयुक्तः, तादृशश्चापि स्यादित्यर्थः ॥ ५४॥ अथ तृतीयगुप्तेः फलं प्रश्नपूर्वकमाह
॥मूलम् ॥ कायगुत्तयारणं भंते जीवे किं जणयइ ? कायगुत्तयारणं संवरं जणयइ, संवरेण ६ कायगुत्ते पुणो पावासवनिरोहं करेइ.॥५५॥व्याख्या-हे भदंत ! कायगुप्ततया जीवः किं जनयति?
गुरुराह-हे शिष्य ! कायगुप्ततया जीवः संवरं जनयति, संवरेण गुप्तकायः पुनः पापाश्रवनिरोधं करोति.॥५५॥अथ गुप्तित्रयधारकस्य साधोर्मनोवाकायानांसमाधारणा भवति, अतस्तत्फलं प्रश्नपूर्वमाह.
॥मूलम् ॥-मणसमाहरणयाएणं भंते जीवे किं जणयई? मणसमाहारणयाएणं एगग्गं जणयइ, एगग्गं जणइत्ता नाणपज्जवे जणयइ, नाणपज्जवे जणइत्ता समत्तं विसोहेइ, मित्थत्तं च नि
४॥१०१७॥
For Private And Personal Use Only