________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा॥ १०१७
www.kobatirth.org
जीवः किं फलं जनयति ? गुरुराह - हे शिष्य ! वचोगुप्ततया निर्विकारत्व विरागभावमुत्पादयति. निर्विकारो जावो वाग्गुप्तो गुप्तवचनश्च सर्वविकथात्यागाद्वाग्निरोधी वाग्गुप्तिमान् सन्नध्यात्मयोगसाधनयुक्तश्चापि भवति. आत्मन्यधितिष्ठतीत्यध्यात्मं मनस्तस्य योगाः शुभव्यापारा धर्मध्यानादयस्तेषां | साधनमेकाग्र्यमध्यात्मयोगसाधनं, तेन युक्तोऽभ्यात्मयोगयुक्तः तादृशश्चापि स्यादित्यर्थः ॥ ५४ ॥ अथ तृतीयगुप्तेः फलं प्रश्नपूर्वकमाह
॥ मूलम् ॥ कायगुत्तयाएणं भंते जीवे किं जणयइ ? कायगुत्तयाएणं संवरं जणयइ, संवरेण कायगुत्ते पुणो पावासवनिरोहं करेइ. ॥ ५५ ॥ व्याख्या - हे भदंत ! कायगुप्ततया जीवः किं जनयति ? गुरुराह - हे शिष्य ! कायगुप्ततया जीवः संवरं जनयति, संवरेण गुप्तकायः पुनः पापाश्रवनिरोधं करोति. ॥५५॥ अथ गुप्तित्रयधारकस्य साधोर्मुनोवाक्कायानां समाधारणा भवति, अतस्तत्फलं प्रश्नपूर्वमाह.
॥ मूलम् ॥ — मणसमाहरणयाएणं भंते जीवे किं जणयइ ? मणसमाहारणयाएणं एगग्गंजtes, एगग्गं जणइत्ता नाणपज्जवे जणयइ, नाणपज्जवे जणइत्ता समत्तं विसोहेइ, मित्थत्तं च -
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
॥ १०१७॥