________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
सटीक
उत्तरा
॥ मूलम् ॥-जोगसच्चेणं भंते जीवे किं जणयइ ? जोगसच्चेणं जोगे विसोहेइ ॥५२॥ व्या॥१०१६॥
| ख्या-हे भदंत! योगसत्येन, मनोवाकाययोगानां सत्यं योगसत्यं, तेन योगसत्येन मनोवाक्कायसाफल्येन जीवः किं जनयति? तदा गुरुराह-हे शिष्य! योगसत्येन योगान् विशोधयति, मनोवाक्काय
योगान् विशदीकरोति, कर्मबंधाऽभावान्निदोषान् करोतीति भावः.॥५२॥ इदं सत्यं हि गुप्तिसहितस्य 15 भवति, गुप्तीनामादौ मनोगुप्तिरस्ति, तस्मात्पूर्व तस्याः फलं प्रश्नपूर्वकमाह
॥ मूलम् ॥-मणगुत्तयाएणं भंते जीवे किं जणयइ ? मणगुत्तयाएणं जीवे एगग्गं जणयइ, एगग्गचित्तेणं जीवे मणगुत्ते संजमाराहए भवइ. ॥ ५३ ॥ व्याख्या-हे भदंत ! मनोगुप्ततया जीवः किं है जनयति ? तदा गुरुराह-हे शिष्य ! मनोगुप्ततया जीव एकाग्यं धमें एकांतत्वमुपार्जयति. एकाग्रचित्तो | जीवो गुप्तमनाः सन् संयमस्याराधकः पालको भवति. ॥ ५३ ॥ अथ वचोगुप्तिफलमाह
॥ मूलम् ॥–वयगुत्तयाएणं भंते जीवे किं जणयइ ? वयगुत्तयाएणं निविकारत्तं जणयइ, निविकारेणं जीवे गुत्ते अज्झप्पजोगसाहणजुत्तेआवि भवइ. ॥ ५४॥ व्याख्या-हे भदंत ! वचोगुप्ततया
॥१०१६॥
For Private And Personal Use Only