________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥१०१५॥
जोवो भावविशुद्धिं जनयति, निर्मलाध्यवसायं जनयति. भावविशुद्धौ वर्तमानोऽर्हत्प्रज्ञप्तस्य श्रीजिनप्रणीतस्य धर्मस्याराधनायै अभ्युत्तिष्टति सावधानो भवति, अर्हत्प्रज्ञप्तस्य धर्मस्याराधनायै अभ्युत्थाय सावधानो भूत्वा परलोके धर्मस्याराधको भवति. परलोके सम्यग्गतिं प्राप्य धर्ममाराधयतीत्यर्थः. ॥ ५० ॥ भावसत्यं च करणसत्ययुक्त संभवति, अतः करणसत्यस्य फलं प्रश्नपूर्वकमाह--
॥ मूलम् ॥-करणसच्चेणं भंते जीवे किं जणयइ? करणसच्चेणं करणसत्तिं जणयइ, करणसच्चे वट्टमाणे जीवे जहावाई तहाकारीआवि भवइ. ॥ ५१ ॥ व्याख्या-हे भदंत! करणसत्येन जीवः किं जनयति? करणे प्रतिलेखनादिक्रियायां सत्यं यथोक्तविधिनाराधनं करणसत्यं, तेन करणसत्येन जीवः किं फलमुपार्जयति? तदा गुरुराह-हे शिष्य ! करणसत्येन करणशक्तिं क्रियासामयं जनयति. पुनः करणसत्ये वर्तमानो जीवो यथावादी तथाकारी भवति. क्रियासत्यः पुमान् यादृशं सूत्रार्थ पठति, यादृशं क्रियाकलापं वदति, तथैव करोतीति भावः. ॥ ५१ ॥ एवंविधस्य योगसत्यमपि स्यात्, अतो योगसत्यस्य फलं प्रश्नपूर्वमाह
5454545453
॥१०१५॥
For Private And Personal Use Only