________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
* सटीक
॥१०१४॥
वेन कोमलपरिणामेन जीवः किं जनयति? गुरुराह-हे शिष्य ! माईवेन मानपरिहारेण जीवोऽनुत्सृतत्वभनहंकारित्वमहंकाराऽभावं जनयति. अनुत्सृतत्वेनाहंकाराभावेन जीवो मृदुः कोमलः सकलभव्यजनमनःसंतोषहेतुत्वाद् द्रव्यतो भावतश्च सरलोऽवनमनशोलः, मृदो वो मार्दवं, मृदुगुणमार्दवगुणयोरयं भेदः, अवसरेऽवनमनं मृदुगुणः, यत्सर्वदा कोमलत्वभवनं तन्मार्दवं, यद्वा कायेन मानत्यागो मृदुगुणः, मनसा मानपरिहारो मार्दवं. ताभ्यां संपन्नो भवति संयुक्तो भवति. तादृशः सन्नष्टौ मदस्थानानि निष्टापयति क्षपयति. ॥४९॥ एतत्प्रायः सत्यसंस्थितस्य साधोर्भवति, सत्येषु भावसत्यमेव प्रधानं, अतस्तत्फलं प्रश्नपूर्वकमाह
॥ मूलम् ॥-भावसच्चेणं भंते जीवे किं जगयइ? भावसच्चेणं भावविसोहिं जणयइ, भावविसोहिए वट्टमाणे जीवे अरहंतपन्नत्तस्स धम्मस्स आराहणयाए अप्भुट्टेइ, अरहंतपन्नत्तस्स धम्मस्स आराहणायाएणं अप्भुटेत्ता परलोगधम्मस्स आराहए भवइ. ॥५०॥व्याख्या-हे भदंत! भावसत्येन, भावेऽभ्यंतरात्मनि सत्यं भावसत्यं, तेन भावसत्येनजीवः किं जनयति ? गुरुराह-हे शिष्य! भावसत्येन
ॐRIGHTS
॥१०१४॥
For Private And Personal Use Only