________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
॥१०११॥
RECEMBECAUSUCAUS
जीवः प्राप्ताऽपुनरावृत्तिःप्राप्तमोक्षो जावः शारीरमानसानां दुःखानां विभागी नो भवति. ॥४४॥ सर्व- ती सटीक गुणसंपन्नतया वीतरागो भवति, अतस्तत्फलं प्रश्नपूर्वकमाह
॥ मूलम् ॥-वीयराययाएणं भंते जीवे किं जणयइ ? वीयराययाएणं नेहाणुबंधणाणि य तण्हाणुबंधणाणि य वोछिंदइ, मणुन्नेसु सद्दफरिसरूवगंधेसु विरजइ. ॥ ४५ ॥ व्याख्या-हे भगवन् ! || वीतरागतया जीवः किं जनयति ? वीतो गतो रागो यस्मात्स वीतरागस्तस्य भावो वीतरागता, तया वीतरागतया रागद्वेषाभावेन किं फलं जनयति? गुरुराह-हे शिष्य! वीतरागतया स्नेहानुबंधनानि, स्नेहस्याऽनुकूलानि बंधनानि, पुत्रमित्रकलत्रादिषु प्रेमपाशान् , तथा तृष्णानुबंधनानि, द्रव्यादिष्वाशापाशान् व्यवच्छिनत्ति, विशेषेण त्रोटयति. पुनर्मनोज्ञेषु मनोहरेषु शब्दस्पर्शरसरूपगंधेभ्यो विरज्यते, विषयेभ्यो विरक्तो भवतीति भावः ॥४५॥ वीतरागतायुक्तस्तु श्रामण्यसंयुक्तो भवति, श्रामण्यधमें च क्षांतिरेवाद्या, अतस्तत्फलं प्रश्नपूर्वकमाह॥ मूलम् ॥-खंतिएणं भंते जीवे किं जणयइ? खंतिएणं परीसहे जयइ.॥४६॥ व्याख्या
॥१०११॥
For Private And Personal Use Only