________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा ॥ १०१२ ॥
www.kobatirth.org
हे भगवन्! क्षांत्या क्षमया कृत्वा जीवः किं फलं जनयति ? तदा गुरुराह - हे शिष्य ! क्षमया परीषहान् जयति ॥ ४३ ॥ अथ पुनः क्षमावान् मुक्तियुक्तो भवति, निर्लोभी भवति, अतस्तत्फलं प्रश्नपूर्वकमाह. ॥ मूलम् ॥ मुत्तीएणं भंते जीवे किं जणयइ ? मुत्तीएणं अकिंचणं जणयइ, अकिंचणेणं जीवे अत्थलोभाणं अप्पत्थणिजे भवइ ॥ ४७ ॥ व्याख्या - हे भगवन्! मुक्त्या निलोंभत्वेन जीवः किं जनयति ? गुरुराह - हे शिष्य ! मुक्त्याऽकिंचनत्वं निःपरिग्रहत्वमुत्पादयति, अकिंचनत्वेन जीवोऽर्थलोभानामप्रार्थनीयो भवति कोऽर्थः ? योऽकिंचनो निःपरिग्रहो भवति, स पुरुषोऽर्थे लोभो येषां तेऽर्थ - लोभा द्रव्यार्थिनश्चौरादयः पुरुषास्तेषामप्रार्थनीयस्तैरवांछनीयः, चौरादयो हि निःपरिग्रह किं कुर्वति ? परिग्रहवतां चौरेभ्यो भीतिः स्यात्. ॥ ४७ ॥ लोभे सति माया स्यात्, लोभाऽभावे मायाऽभावः, | मायाया अभावे आर्जवं सरलत्वं स्यात्, अतस्तत्फलं प्रश्नपूर्वकमाह
॥ मूलम् ॥ - अजवयाएणं भंते जीवे किं जणयइ ? अज्जवयाएणं काउज्जुययं भावुज्जुययं भासज्जुययं अविसंवादणं जणयइ. अविसंवादणसंपन्नेणं जीवे धम्मस्स आराहए भवइ ॥ ४८ ॥ व्या
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
॥ १०१२ ॥