________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ १०१० ॥
www.kobatirth.org
विहरति द्वादशविधेन तपसा समितिगुप्तिसहितो भृत्वा ग्रामनगरादौ विचरति. ॥ ४२ ॥ प्रतिरूपतायामपि वैयावृत्त्यं कर्तव्यं, अतस्तत्फलमाह
॥ मूलम् ॥ —वेयावच्चेणं भंते जीवे किं जणयइ ? वेयावच्चेणं तित्थयरनामगोयं कम्मं निबंधेs. ॥ ४३ ॥ व्याख्या—हे भगवन् ! वैयावृत्त्येनाहारादिसाहाय्येन जीवः किं जनयति ? तदा गुरुराह-हे शिष्य । वैयावृत्त्येन तीर्थकरनामगोत्रं कर्म निवभाति वैयावृत्यं कुर्वस्तीर्थकरनामगोत्रं कर्म बनाती - त्यर्थः ॥ ४३ ॥ अथ वैयावृत्त्यवान् सर्वगुणभाक् स्यात्, अतः सर्वगुणसंपन्नतायाः फलं प्रश्नपूर्वमाह -
॥ मूलम् ॥ सर्व्वगुणसंपन्नयाएणं भंते जीवे किं जणयइ ? सवगुणसंपन्नयाएणं अपुणरावतिं जणयइ, अपुणरावत्तिपत्तए यणं जीवे सारीरमाणसाणं दुक्खाणं नो भागी भवइ ॥४४॥ व्याख्या- हे भदंत ! स्वामिन्! सर्वगुणसंपन्नतया जीवः किं जनयति ? सर्वे च ते गुणाश्च सर्वगुणाः, ज्ञानदर्शनचारित्रादयस्तैः संपन्नता सहितत्वं सर्वगुणसंपन्नता, तया सर्वगुणसंपन्नतया किं फलमुत्पादयति ? | गुरुराह - हे शिष्य ! सर्वगुणसंपन्नतया जीवोऽपुनरावृत्तिं जनयति, मुक्तिमुपार्जयति. अपुनरावृत्तिं प्राप्तो
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
॥ १०१० ॥