________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
| सटीक
॥१००९॥
ABSCASS
प्रतिरूपतया जीवः किं फलं जनयति? प्रतिरूपतायाः कोऽर्थः? प्रतोति स्थविरकल्पिसदृशं रूपं यस्य स प्रतिरूपः, तस्य भावः प्रतिरूपता तया, स्थविरकल्पिसाधुवेषधारित्वेन जीवः किं जनयति ? गुरुराह-हे शिष्य ! प्रतिरूपतया जीवो लघुत्वं जनयति, अधिकोपधित्यागेन लघुत्वमुपार्जयतीत्यर्थः. द्रव्यत उपध्यादिपरिग्रहपरित्यागेन, भावतस्त्वप्रतिबद्धविहारत्वेन लघुर्भवति. लघूभृतश्च जीवोऽप्रमत्तो भवति, तादृशः प्रकटलिङ्गः, प्रकटं स्थविरकल्पादिवेषेण स्फुटं लिंगं चिहूं यस्य स प्रकटलिंगः. पुनः प्रशस्तलिंगः, प्रशस्तं समीचीनं रजोहरणमुखपोतिकादिकं यस्य स प्रशस्तलिंगः, पुनर्विशुद्धसम्यक्त्वो निमेंलसम्यक्त्वः, पुनः सत्वसमितिसमाप्तः, सत्वं च समितयश्च सत्वसमितयस्ताभिः समाप्तः संपूर्णो धैर्यसमितियुक्त इत्यर्थः. ततः पुनः सर्वप्राणमृतजीवसत्वेषु विश्वसनीयो विश्वासयोग्यो भवति. पुनस्ताहशोऽल्पप्रतिलेखः, प्रतिलेखनं प्रतिलेखः, अल्पः प्रतिलेखो यस्य सोऽल्पप्रतिलेखः, अल्पोपकरणत्वादल्पप्रतिलेखनावान् भवतीत्यर्थः. पुनः स जितेंद्रियो भवति. पुनर्विपुलतपःसमितिसमन्वागतश्चापि विहरति, विपुलानि विस्तीर्णानि तपांसि समितयश्च विपुलतपःसमितयस्ताभिरन्वागतिः सहितः सन् |
ॐॐॐॐॐ
॥१००९॥
For Private And Personal Use Only