________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
॥१००४॥
शंसप्रयोगं विच्छिद्य निवार्य जीव आहारमंतरेण न क्लिश्यति. तस्मै यदि शुद्धाहारलाभो न स्यात्तदा जीवितासंसारहितो मुनिर्न क्लेशभाक् स्यादिति भावः ॥३५॥ एतत्प्रत्याख्यानत्रयमपि कषाया:भावे एव फलवत् स्यात् , अतस्तत्फलं प्रश्नपूर्वकमाह
॥ मूलम् ॥–कसायपच्चकाणेणं भंते जोवे किं जगयइ ? कषायपञ्चकाणेगं वीयरायभावं जणयइ, बीयरायभावं पडिवजेयणं जीवे समसुहदुख्खे भवइ. ॥ ३६॥ व्याख्या-हे स्वामिन् ! कषायप्रत्याख्यानेन जीवः किं जनयति ? गुरुराह-हे शिष्य ! कषायप्रत्याख्यानेन क्रोधमानमायालोभत्यागेन जीवो वीतरागभावं जनयति. प्रतिपन्नवीतरागभावो जीवः समसुखदुःखो भवति. ॥ ३६ ॥ निकषायोऽपि योगप्रत्याख्यानवान् भवति, अतस्तत्फलं प्रश्नपूर्वकमाह
॥ मूलम् ॥-जोगपच्चख्काणेणं भंते जीवे किं जणयइ ? जोगपच्चरुकाणेणं जीवे नवं कम्मं न बंधइ, पुवबद्धं च निजरेइ. ॥३७॥ व्याख्या-हे भगवन् ! योगप्रत्याख्यानेन, योगो मनोबाकायानां व्यापारस्तस्य प्रत्याख्यानं योगप्रत्याख्यानं, तेन जीवः किं जनयति? तदा गुरुराह-हे शिष्य ! योग
॥१००४॥
For Private And Personal Use Only