SearchBrowseAboutContactDonate
Page Preview
Page 933
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagersuri Gyanmandir उत्तरा ॥१००५॥ प्रत्याख्यानेनाऽयोगित्वं जनयति, शैलेशीभावं भजति. अयोगी हि जीवश्वतुर्दशगुणस्थाने प्रवर्तमानो ला सटीक नवं कर्म न बनाति, पूर्वबई च कर्म निर्जरयति क्षपयतीति भावः ॥ ३७॥ योगप्रत्याख्यानतः शरीरप्रत्याख्यानं करोति, अतस्तत्फलं प्रश्नपूर्वकमाह ॥मूलम् ॥-सरीरपच्चक्खाणेणं भंते जीवे किं जणयइ? सरीरपच्चक्खाणेणं सिद्धाइसयगुणत्तं निवत्तेइ, सिद्धाइसयगुणसंपन्ने य णं जीवे लोगग्गमुवगए परमसुही होइ.॥३८॥ व्याख्या-हे भगवन् ! शरोरप्रत्याख्यानेन शरीरव्युत्सर्जनेन जीवः किं लाभं जनयति ? गुरुराह-शरीरप्रत्याख्यानेन सिद्धातिशयगुणत्वं निवर्तयति, कोऽर्थः सिद्धानां येऽतिशयगुणाः सर्वोत्कृष्टगुणास्तेषां भावः सिद्धातिशयगुणत्वं, यतो हि सिद्धा न नीलाः, न लोहिताः, न हारिद्राः, न शुक्ला इत्यायेकत्रिंशद् गुणाः, तद्वत्त्वं प्राप्नोतीत्यर्थः.प्राप्तसिद्धातिशयगुणो जीवो लोकाग्रं मोक्षमुपगतः सन् परमसुखी भवति. यद्यपि योगप्रत्याख्यानेन शरीरप्रत्याख्यानः समागतः, तथापि मनोवाग्योगयोः शरीरस्य प्राधान्यख्यापनार्थं पृथगुपा ॥१००५॥ दानं ॥३८॥संभोगादिप्रत्याख्यानानि प्रायःसाहाय्यप्रत्याख्यानयुक्तस्य भवंति,अतस्तत्फलं प्रश्नपूर्वमाह. For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy