________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ १००३ ॥
www.kobatirth.org
प्रत्याख्यानेन रजोहरणमुखवस्त्रिकापात्रादिव्यतिरिक्तस्योपधेः प्रत्याख्यानेनोपधित्यागेन जीवः किमुपाजयति ? गुरुराह - हे शिष्य ! उपधिप्रत्याख्यानेनाऽपरिमंथं जनयति. परिमंथः स्वाध्यायव्याघातः, न परिमंथोऽपरिमंथः स्वाध्यायादो निरालस्यं जनयति पुनर्निरुपधिको निःपरिग्रहो जीवो निःकांक्षो भवति, वस्त्रादावभिलाषरहितः स्यादित्यर्थः, तादृशो द्युपधिमंतरेणोपधिं विना न संक्लिश्यते, क्लेशं न प्राप्नोति सपरिग्रहो हि क्लेशं प्राप्नोतीति भावः ॥ ३४ ॥ अथोपधिप्रत्याख्यानवान् साधुर्जिन कल्पादि|रेषणीयाहारस्याऽलाभेनोपवासं करोति, आहारप्रत्याख्यानं करोति, तदा तत्फलमपि प्रश्नपूर्वमाह
॥ मूलम् ॥ —आहारपच्चख्खाणं भंते जीवे किं जणयइ ? आहारपञ्चख्काणेणं जीवियासंसप्पओगं वोछिंदइ, जीवियासंसप्पओगं वोछिंदित्ता जोवे आहारमंतरेण न संकिलिस्सइ ॥ ३५ ॥ व्याख्या - हे भदंत ! आहारस्य प्रत्याख्यानेन सदोषाहार त्यागेनोपवासादिना जीवः किं फलं जनयति ? गुरुराह - हे शिष्य ! आहारप्रत्याख्यानेन जीवो जीविताशं सप्रयोगं व्यवच्छिनत्ति जीविते प्राणधारणे आशंसा अभिलाषस्तस्याः प्रयोगो व्यापारो जीविताशंसप्रयोगस्तं व्यवच्छिनत्ति निवारयति जीविता
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
॥ १००३ ॥