________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ १००२ ॥
www.kobatirth.org.
भवंति आयतो मोक्षः, स एवार्थः प्रयोजनं येषां ते आयतार्थाः, एतादृशा योगा भवंति मनोवाक्काययोगा भवंति स्वेन लाभेन संतुष्यति, परस्य लाभं नास्वादयति, न वांछ्यति, ततश्च परस्य लाभ नो तर्कयति, यदिदं मह्यं दास्यतीति मनसा न विकल्पयति. नो स्पृहयति, परलाभे श्रद्धालुतया स्वस्य स्पृहां न प्रकटोकरोति. पुनः परस्य लाभं न प्रार्थयति, मह्यं देहीति न योचते. पुनर्नाभिलषति, | परस्य लाभं लालसापूर्वकं न वांछति अथ परस्य लाभं ' अणासायमाणो ' अनास्वादयन् अतर्कयन्, अनीहमानः, अप्रार्थयन्, अनभिलषन् द्वितीयां सुखशय्यामुपसंपद्य विहरति, अपरेभ्यः साधुभ्यः पृथगुपाश्रयमं गीकृत्य प्रवर्तते, यादृशी स्थानांगे उक्तास्ति, तां प्रतिपद्य विहरति अत्र ह्येते शब्दा एकार्थाः प्रतिपादितास्तदनेकदेशीय शिष्याणां प्रतिबोधनार्थ पर्यायत्वेन प्रतिपादिताः ॥ ३३ ॥ संभोगप्रत्याख्यान वतः साधोरुपधिप्रत्याख्यानं संभवति, अतस्तत्फलं प्रश्नपूर्वकमाह
॥ मूलम् ॥ — उवहिपञ्चक्खाणेणं ते जीवे किं जणयइ ? उवहिपच्चक्खाणेणं अपलिमंथं जणयइ, निरुवहिणं जीवे निकंखे उवहिमंतरेण न संकिलिस्सइ ॥ ३४ ॥ व्याख्या - हे भदंत ! उपधि
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
॥ १००२ ॥