________________
Shri Mahavir Jain Aradhana Kendra
www.kobarth.org
Acharya Shri Kailassagersuri Gyanmandie
उत्तरा
सटीक
॥९९६॥
1
॥मूलम् ॥-सुयस्स आराहणयाएणं भंते जीवे किं जणयइ ? सुयस्स आराहणयाए अन्नाणं || खवेइ, न य संकिलिस्सइ. ॥ २४ ॥ व्याख्या-हे भदंत! श्रुतस्याराधनया जीवः किं जनयति ? | 2 गुरुराह-हे शिष्य! श्रुतस्याराधनया सम्यगासेवनयाऽज्ञानं क्षपयति, विशिष्टतत्वावबोधस्याऽवाप्तेः. च पुनर्न संक्लिश्यते, रागद्वेषजनितं क्लेशं न भजतीति भावः. ॥ २४ ॥ श्रुताराधना चैकाग्रमनःसंनिवेशनावत एव स्यादतस्तत्फलं प्रश्नपूर्वमाह
॥ मूलम् ॥-एगग्गमणसंनिवेसणयाएणं भंते जीवे किं जणयइ ? एगग्गमणसंनिवेसणयाएणं || चित्तनिरोहं जणयइ. ॥२५॥ व्याख्या-हे भदंत ! हे स्वामिन् ! एकमयं प्रस्तावाच्छभमालंबनमस्येत्येकाग्रं, एकाग्रं च तन्मनश्चैकाग्रमनस्तस्य संनिवेशना स्थापना, तयैकाग्रमनःसंनिवेशनया शुभाचलंबनेन चित्तस्य स्थिरीकरणेन जीवः किं फलं जनयति ? गुरुराह-हे शिष्य ! एकाग्रमनःसनिवेशनया चित्तनिरोधं जनयति, चित्तस्येतस्तत उन्मार्गप्रस्थितस्य निरोधो नियंत्रण चित्तनिरोधस्तं करोतीति भावः॥२५॥ एवंविधस्य साधोः संयमादेरिष्टफलस्य प्राप्तिरिति नियमात्तत्फलं प्रश्नपूर्वमाह
For Private And Personal Use Only