________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
44945444SALUCk
चत्वारश्चतुर्गतिलक्षणा अंता अवयवा यस्य तच्चातुरंतं, तदेव संसारकांतारं संसारारण्यं, तच्छीघ्रमुल्लंघयति. कोदृशं संसारारण्यं ? अनादिकमादेरभावादादिरहितं. पुनः कीदृशं संसारकांतारं? अनवदग्रं अनवद नागच्छदग्रं परिमाणं यस्य तदनवदग्रमनंतमित्यर्थः. प्रवाहापेक्षयाऽनाद्यनंतं. पुनः कीदृशं? दीर्घाध्वं दीर्घकालं. 'दोहमऊ' इत्यत्र मकारोऽलाक्षणिकः प्राकृतत्वात्. ॥ २२ ॥ एवमभ्यस्तशास्त्रेण | धर्मकथा कर्तव्या. ततो धर्मकथाकर्तुः किं फलं स्यात् ? अतस्तत्फलमपि प्रश्नपूर्वमाह
॥मूलम् ॥-धम्मकहाएणं भंते जीवे किं जणयइ ? धम्मकहाएणं पवयणं पभावेइ, पवयणप्पभावएणं जीवे आगमेसिस्स भद्दत्ताए कम्मं निबंधइ. ॥३३॥ व्याख्या-हे स्वामिन् ! धर्मकथया जीवः किं जनयति? गुरुराह-हे शिष्य ! धर्मकथया धर्मव्याख्यानेन जीवः प्रवचनं श्रीसिद्धांतं भगवद्वचनं प्रभावयति प्रकाशयति. प्रवचनप्रभावकः सिद्धांतोदीपको जीव आगमिष्यद्भद्रतयोपलक्षितंकर्म निबध्नाति, आगामिनि काले भद्रत्वेनोपलक्षितमर्थाच्छभं कर्म समुपार्जयतीति भावः ॥ २३ ॥ पंच| विधस्वाध्यायरतेन श्रुतमाराधितं स्यादतस्तस्य फलं प्रश्नपूर्वकमाह
॥९९५॥
65
For Private And Personal Use Only