________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोकं
॥९९४॥
पुनस्तीबानुभावाः कर्मप्रकृतीमंदानुभावाः प्रकरोति. तीव्र उत्कटोऽनुभावो रसो यासां तास्तीत्रानुभावाः, ईदृशीः कर्मप्रकृतीमंदो निर्बलोऽनुभावो यासां ता मंदानुभावास्तादृशीः प्रकर्षेण विदधाति. पुनर्बहुप्रदेशाग्रा अल्पप्रदेशाग्राः प्रकरोति, बहुप्रदेशाग्रं कर्मपुद्गलदलिकप्रमाणं यासां ता बहुप्रदेशाग्राः एता|| दृशीः कर्मप्रकृतीरल्पप्रदेशाग्राः प्रकरोति. इत्यनेनानुप्रेक्षयाऽशुभश्चतुर्विधोऽपि बंधः, प्रकृतिबंधः, स्थिति | बंधः, अनुभागबंधः, प्रदेशबंधश्च, शुभत्वेन परिणमतीत्यर्थः. अत्र चायुर्वजमित्युक्तं तत्त्वेकस्मिन् भवे सकृदेवांतर्मुहूर्तकाले एवायु वो बन्नाति, च पुनरायुःकर्मापि स्याहभाति, स्यान्न बध्नाति, संसारमध्ये तिष्टति चेत्तीशुभमायुर्न बनाति, शुभं चायुर्बध्नाति, जीवेन तृतीयभागादिशेषायुष्केणायुःकर्म बध्यते अन्यथा न बध्यते, तेनायुःकर्मबंधे निश्चयो नोक्तः, इत्यनेन मुक्तिं व्रजति तदायुन बनातीत्युक्तं. पुन रनुप्रेक्षया कृत्वा जीवोऽसातावेदनीयं कर्म शारीरादिदुःखहेतु च कर्म, चशब्दादन्याश्चाऽशुभप्रकृतीन भूयोभृय उपचिनोति. अत्र भूयोभ्यग्रहणेनैवं ज्ञेयं, कश्चिद्यतिः प्रमादस्थानके प्रमादं व्रजेत्तदा बना त्यपीति हाद. पुनरनुप्रेक्षया कृत्वा जीवश्चातुरंतं संसारकांतारं क्षिप्रमेव वीईवयइ' इति व्यतिव्रजति
HERS
For Private And Personal Use Only