________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyarmandir
उत्तरा
॥९९३॥
| पकरेइ, तिवाणुभावाओ मंदाणुभावा पकरेइ, बहुपएसग्गाओ अप्पपएसग्गाओ पकरेइ, आउस च णं है सटोकं
कम्मं सिय बंधइ सिय नो बंधइ, असायावेयणिजं च णं कम्मं नो भुजो भुजो उवचिणइ, अणाइयं |च णं अगवयग्गं दोहमद्धं चाउरंतसंसारकंतारं खिप्पामेव वीईवयइ. ॥२१॥ व्याख्या-हे भदंत! हे स्वाभिन्! अनुप्रेक्षया सूत्रार्थचिंतनिकया जीवः किं जनयति ? गुरुराह-हे शिष्य ! अनुप्रेक्षया कृत्वा जीवः सप्तकर्मप्रकृतीझनावरणदर्शनावरणवेदनीयमोहनीयनामगोत्रांतरायरूपाणां सप्तानां कर्मणां प्रकृ| तय एकशतचतुःपंचाशत्प्रमाणाः सप्तकर्मप्रकृतयस्ताः सप्तकर्मप्रकृतीः, धणियबंधणबद्धा गाढबंधनबद्धा निकाचिता बद्धाः शिथिलबंधनबद्धाः प्रकरोति. यतो ह्यनुप्रेक्षा स्वाध्यायविशेषः, सा तु मनसस्तत्रैव नियोजनाद्भवति, स चानुप्रेक्षास्वाध्यायो ह्यभ्यंतरं तपः, तपस्तु निकाचितकर्माणि शिथिलीकर्तुं समर्थ भवत्येव. कथंभूताः सप्तकर्मप्रकृतीः? आयुर्वर्जाः, प्रकृष्टभावहेतुत्वेनायुर्वर्जयंतीत्यायुर्वर्जाः, पुनहें शिष्य ! अनुप्रेक्षया कृत्वा जीवस्ता एव कर्मप्रकृतीर्दीर्घकालस्थितिकाः शुभाध्यवसाययोगात् स्थितिखंडानामपहारेण हखकालस्थितिकाः प्रकरोति, प्रचरकालभोग्यानि कर्माणि स्वल्पकालभोग्यानि करोतीत्यर्थः.
बा॥९९३॥
2018BES
For Private And Personal Use Only