________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
FORNARAKHPOARAN
॥ मूलम् ॥-संजमेणं भंते जीवे किं जणयइ ? संजमेणं अणण्हयत्तं जणयइ. ॥ २६ ॥ व्याख्या-हे भगवन् ! संयमेन जीवः किं जनयति ? गुरुराह-संयमेन अनंहस्कत्वं, न विद्यतेंहः पापं यस्मिंस्तदनंहस्कं, तस्य भावोऽनंहस्कत्वं, तज्जनयति. संयमेनाश्रवनिरोध जनयतीत्यर्थः. ॥ २६ ॥ संयमवान् साधुस्तपोनिरतः स्यादतस्तत्फलं प्रश्नपूर्वकमाह
॥मूलम् ॥-तवेगंभंते जीवे किं जणयइ ? तवेगं वोदाणं जणयइ.॥२७॥ व्याख्या-हे भगवन् ! | तपसा कृत्वा जोवः किं फलं जनयति ? गुरुराह-हे शिष्य ! तपसा जीवो व्यवदानं जनयति, पूर्वबद्धकर्मापगमनेन विशेषेण शुद्धिं जनयति.॥२७॥व्यवदानेन किं फलं स्यात् ? अतस्तत्फलं प्रश्नपूर्वमाह
॥मूलम् ॥-वोदाणेणं भंते जीवे किं जणयइ? वोदाणेणं अकिरियं जणयइ, अकिरियए भवित्ता तओ पच्छा सिज्झइ, बुज्झइ, मुच्चइ, परिनिव्वायइ, सवदुख्काणमंतं करेइ. ॥ २८ ॥ व्याख्या-हे भदंत' व्यवदानेन जीवः किं जनयति? गुरुराह-हे शिष्य ! व्यवदानेन जीवोऽक्रियं जनयति, न विद्यते क्रिया यस्मिन् सोऽक्रियस्तमक्रियं व्यपरतक्रियाख्यं शुक्लध्यानस्य चतुर्थं भेदं जनयति. अक्रि
RAHARASHTRA
॥९९७॥
For Private And Personal Use Only