________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥९९०॥
34+39
*SHRISHAKHS*
चित्तप्रसत्तिरूपं जनयति, प्रह्लादनभावमुपगतो जीवः सर्वप्राणभूतजीवसत्वेषु, प्राणाश्च भूताश्च जीवाश्च सत्वाश्च प्राणभृतजीवसत्वाः, सर्वे च ते प्राणभूतजीवसत्वाश्च सर्वप्राणभूतजीवसत्वाः, तेषु मैत्रीभावमुत्पादयति. मैत्रीभावं गतस्तु जीवो भावविशोधिं कृत्वा रागद्वेषनिवारणं विधायेहलोकादिसप्तभयानि निवार्य निर्भयो भवति.॥१७॥क्षामणाकारिणा साधुना स्वाध्यायः कर्तव्यः, अतस्तत्फलं प्रश्नपूर्वकमाह
मूलम् ॥-सज्झाएणं भंते जीवे किं जणयइ ? सज्झाएणं नाणावरणिजं कम्मं खवेइ. ॥१८॥ व्याख्या-हे भदंत ! स्वाध्यायेन पंचप्रकारेण जीवः किं जनयति ? गुरुराह-हे शिष्य ! स्वाध्यायेन ज्ञाना| वरणीयं कर्म क्षपयति. ॥१८॥ तत्र पंचविधस्य स्वाध्यायस्य पृथक्फलं प्रश्नपूर्वकमाह
॥मूलम् ॥-वायणयाएणं भंते जीवे किं जणयइ ? वायणयाएणं निजराणं जणयइ, सुयस्स अणासायणाए वइ, सुयस्स अणासायणाए वहमाणे तित्थधम्म अवलंबइ, तित्थधम्मं अवलंबमाणे महानिजरे महापजवयाणे भवइ.॥१९॥ व्याख्या-हे. पूज्य ! वाचनया, वाचयतीति वाचना पाठना, तया जीवः किं जनयति ? गुरुराह-हे शिष्य ! वाचनया सिद्धांतवाचनेन निर्जरां कर्मशाटनं जनयति.
+4+
344
॥९९०॥
ч
.
For Private And Personal Use Only