________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ९९१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तथा पुनः श्रुतस्याऽनाशातनायां प्रवर्तते, तत्र च प्रवर्तमानो जीवस्तीर्थो गणधरस्तस्य धर्म आचारः श्रुतप्रदानरूपस्तीर्थधर्मस्तमालंबते. ततस्तीर्थधर्ममवलंबमानस्तीर्थधर्ममाश्रयन् महानिर्जरो भवति, | महानिर्जरा यस्य स महानिर्जरो महाकर्मविध्वंसको भवति. पुनमेहापर्यवसानो महत्प्रशस्यं मुक्त्यवाप्त्या पर्यवसानमंतः कर्मणो भवस्य वा यस्य स महापर्यवसानश्च भवति, मुक्तिभाग्भवतीति हार्द ॥ १९ ॥ | अथ गृहीतवाचनेन पुनः संशयादो पुनः पृच्छनं प्रतिपृच्छना, अतस्तत्फलं प्रश्नपूर्वकमाह -
॥ मूलम् ॥ - पहिपुच्छणयाएणं भंते जीवे किं जणयइ ? पडिपुच्छणयाएणं सुतत्थतदुभयाई विसोहेइ, कंखामोहणिज्जं कम्मं वुच्छिदइ ॥ २० ॥ व्याख्या - हे स्वामिन् ! प्रतिपृच्छनया पूर्वाधीतस्य सूत्रादेः पुनःपृच्छनेन जीवः किं जनयति ? गुरुराह - हे शिष्य ! प्रतिपृच्छनया सूत्रार्थतदुभयानि विशोधयति, सूत्रार्थयोः संशयं निवार्य निर्मलत्वं विधत्ते, तथा कांक्षामोहनीयं कर्म व्युच्छिनत्ति, कांक्षाशब्देन संदेहः, कांक्षया संदेहेन मोहनं कांक्षामोहनं, तत्र भवं कांक्षामोहनीयं एतत्कर्म विशेपेणापनयति इदमित्थं तत्वं, अथवेदमित्थं नास्ति, वेदं ममाध्ययनाय योग्यमयोग्यं वेत्यादिघठना
For Private And Personal Use Only
सटीकं
॥ ९९१ ॥