________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ९८९ ॥
www.kobatirth.org
जणयइ, निरइयारे आविभवइ, सम्मं च णं पायच्छित्तं पडिवजमाणे मग्गं च मग्गफलं च विसोहेइ, आयारं च आयारफलं च आराहेइ ॥ १६ ॥ व्याख्या - हे भदंत ! प्रायश्चित्तकरणेन पापशुद्धिकरणेनालोचनादिकेन जीवः किं जनयति ? गुरुर्वदति, हे शिष्य ! प्रायश्चित्तकरणेन पापकर्मविशोधिं जनयति, ततश्च निरतीचारोऽतीचाररहितो भवति सम्यक् प्रायश्चित्तं प्रतिपद्यमानः सन् मार्गं सम्यक्त्वं च पुनमार्गफलं, मार्गस्य सम्यक्त्वस्य फलं ज्ञानं, तद्विशोधयति, च पुनराचारमाराधयति, आचारशब्देन चारित्रमाराधयति. पुनराचारस्य चारित्रस्य फलं मोक्षमाराधयति साधयति ॥ १६ ॥ प्रायश्चित्तं यदा करोति, तदा क्षामणामपि करोत्येव, अतस्तत्फलं प्रश्नपूर्वमाह
॥ मुलम् ॥ - खमावणयाएणं भंते जीवे किं जणयइ ? खमावणयाएणं पल्हायणभावं जणयइ, एल्हायणभावगए सङ्घपाणभृयजीवसत्तेसु मित्तीभावं उप्पाएइ, मित्तीभावमुवगएयाविं जीवे भावविसोहिं काऊण निज्झए भवइ ॥ १७ ॥ व्याख्या - हे भदंत ! क्षामणया, दुःकृतानंतरं क्षेतव्यमिदं ममेत्यादिरूपया जीवः किं जनयति ? गुरुराह - हे शिष्य ! क्षामणया गुरोरग्रे स्वकृतनिंदया प्रह्लादनभावं
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
॥ ९८९ ॥