________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ९८८ ॥
www.kobatirth.org
विमानानि च तेषूत्पत्तिर्यस्याः सा कल्पविमानोत्पतिका, तां पुनः कीदृशीमाराधनां ? अंतक्रियां, अंतस्तु संसारस्य कर्मणां वाऽवसानस्य क्रियांतक्रिया, तां, एवंभूतां ज्ञानाद्याराधनां साधयति. कल्पाः सौधर्मादयो देवलोकाः, विमानानि नवग्रैवेयकपंचानुत्तरविमानानि ज्ञानाद्याराधनया कश्चिद्भरतादिवद्दीर्घकालेन मुक्तिं प्राप्नोति, कश्चिद्गजसुकुमालवत्स्वल्पकालेनैव मुक्तिं प्राप्नोतीति भावः ॥ १४ ॥ अर्हच्चैत्यः वंदनानंतरं स्वाध्यायो विधेयः, स च कालं दृष्ट्वैव विधीयते, अतस्तत्फलं प्रश्नपूर्वकमाह
॥ मूलम् ॥ - कालपडिलेहणयाएणं भंते जीवे किं जणयइ ? कालपडिलेहणयाएणं नाणावर - णिजं कम्मं खवे ॥ १५ ॥ व्याख्या - हे भदंत ! कालप्रतिलेखनया, कालस्य प्रादोषिकप्राभातिकादिकस्य प्रतिलेखना प्रत्युप्रेक्षणा, सिद्धांतोक्तविधिना सत्यप्ररूपणाग्रहणप्रतिजागरणा सावधानत्वं कालप्रतिलेखना, तथा जीवः किं जनयति ? गुरुराह - हे शिष्य ! कालप्रतिलेखनया जीवो ज्ञानावरणीयं कर्म क्षपयति. ॥ १५ ॥ कदाचिदकालपाठे प्रायश्चित्तं कर्तव्यं, तदा प्रायश्चित्तकरणे यत्फलं तदपि प्रश्नपूर्वमाह॥ मूलम् ॥ - पायच्छित्तकरणेणं भंते जीवे किं जणयइ ? पायछित्तकरणेणं पावकम्म विसोहिं
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
| ॥ ९८८ ॥