________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा॥ ९८६ ॥
www.kobatirth.org
कृतं 'हृदयं यस्य स निर्वृतहृदयः प्रशस्तसद्भावनायामुपगतः सुखंसुखेन विहरति, सुखानां परंपरया विचरति. क इव ? अपहृतभारो भारवह इव, यथोत्तारितभारभरी भारवाहकः सुखंसुखेन विहरति, तथा कायोत्सर्गेण प्रायश्चित्तविशुद्धिं विधाय स्वस्थीकृतहृदयो जीवः सुखेन विचरतीति भावः ॥ १२ ॥ एवमपि शुद्धयमानेन प्रत्याख्यानं कार्यं, अतस्तत्फलं प्रश्नपूर्वकमाह -
॥ मूलम् ॥ पच्चक्खाणं भंते जीवे किं जणयइ ? पच्चक्खाणेणं आसवदाराई निरंभइ, पच्चक्खाणेणं इच्छानि रोहं जणयइ, इच्छानिरोहगएणं जीवे सवदध्वसु सुविणीयत ऐह सोयलभूए विहरइ. ॥ १३ ॥ व्याख्या—हे भदंत ! प्रत्याख्यानेन मूलगुणोत्तरगुणरूपप्रत्याख्यानेन रूपेण जीवः किं जनयति ? गुरुराह - हे शिष्य ! प्रत्याख्यानेनानवद्वाराणि निरुणद्धि, अतिशयेनावृणोति. अत्र प्रत्यंतरे कुत्रचिदयं प्रश्नोऽस्ति - हे स्वामिन्! प्रत्याख्यानेन जीवः किं जनयति ? अत्रोत्तरं हे शिष्य ! प्रत्याख्यानेनेच्छानिरोधमाहारादिवांछाया निरोधं जनयति. इच्छानिरोधं प्राप्तो जीवः सर्वद्रव्येषु सुविनीततृष्णो भवति, सुतरामतिशयेन विनीता स्फेटिता तृष्णा येन स सुविनीततृष्यः, अत्यंतदूरीकृततृष्णः सन् शीतलीभृतो
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
| ॥ ९८६॥