________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
ACANCHKARAN
नाऽपराधेभ्यः पश्चान्निवर्तनेन व्रतच्छिद्राणि पिदधाति, ब्रतानां प्राणातिपातविरमणादीनां छिद्राण्य| तोचारान् स्थगयति रुणद्धि, पिहितव्रतच्छिद्रः सन् पुनर्जीवो निरुद्धाश्रवो भवति, निरुद्धाश्रवश्च पुनरशबलचारित्रो निर्मलचारित्रोऽष्टसु प्रवचनमातृषूपयुक्तः सन् समितिगुप्तिषु सावधानः सन्नपृथक्त्वः संयमयोगेभ्योऽभिन्नः सन् सुप्रणिहितो विहरति, सुप्रणिहितान्यसन्मार्गान्निषेध्य सन्मामें व्यवस्थापितानींद्रियाणि येन स सुप्रणिहितेंद्रियः सन्मार्गप्रस्थापितेंद्रियः साधुः स्वमार्गे विहरतीत्यर्थः ॥११॥ ४ अत्रातीचारविशुद्धयर्थं कायोत्सर्ग करोति, अतस्तत्फलं प्रश्नपूर्वकमाह
॥ मूलम् ॥-काउसग्गेणं भंते जीवे किं जणयइ ? काउसग्गेणं तीयपडुप्पन्नं पायच्छित्तं विसोहेइ, विसुद्धपायच्छित्तेणं जीवे निव्वुइयहियओ ओहरियभरुवभारवहो पसत्थझाणोवगए सुहेणं विहरइ. ॥ १२ ॥ व्याख्या-हे भदंत ! कायोत्सर्गेऽतीचारविशुद्ध्यर्थं कायस्य व्युत्सर्जनेन जीवः किं जनयति ? गुरुराह-हे शिष्य ! कायोत्सर्गेणातीतं चिरकालसंभृतं, प्रत्युत्पन्नमासन्नकाले वर्तमानं प्रायश्चित्तमुपचारात्प्रायश्चित्तार्हमतीचारं विशोधयत्यपनयति. विशुद्धप्रायश्चित्तश्च जीवो निवृतं खस्थी
BHASHASABHA
॥९८५॥
For Private And Personal Use Only