________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटोक
॥९८२॥
TAKAAKASHAKAKAAKA
ज्यमानो वैराग्यं प्राप्नुवन् सन् करणगुणश्रेणिं, अपूर्वकरणेन पूर्व कदाप्यप्राप्तेन विशदमनःपरिणामविशेषेण गुणश्रेणिं क्षपकश्रेणिं प्रतिपद्यतेंगीकुरुते. करणगुणश्रेणिं प्रतिपन्नः प्रतिपन्नापूर्वगुणश्रेणिः सन्ननगारः साधुमोहनीय कर्म दर्शनमोहनीयादिकं कमोद्घातयतेऽतिशयेन क्षपयति.॥६॥ कश्चित्वदोपान्निंदन्नपि पापभीरुतया गर्हामपि कुर्यात् , अतस्तत्फलं प्रश्नपूर्वमाह| ॥मूलम् ॥-गरहणाए भंते जीवे किं जणयइ ? गरहणाएणं अपुरस्कार जणयइ, अपुरक्वार-3 | गएणं जीवे अप्पसत्थेहिंतो जोगेहिंतो निवत्तेइ, पसत्थे य पवत्तेइ, पसत्थभोगपडिवन्ने य णं अणगारे अणंतघाइपज्जुवे खवेइ. ॥ ७ ॥ व्याख्या-शिष्यः पृच्छति, हे स्वामिन् ! गर्हणेन परसमक्षमात्मनो दोषोद्भावनेन जीवः किं जनयति ? तदा गुरुराह-हे शिष्य! जीवो गर्हणेनाऽपुरस्कारं जनयति, आत्मनि गुरुस्वारोपणं पुरस्कारः,न पुरस्कारोऽपुरस्कारस्तमपुरस्कारमात्मनोऽवहोलां जनयति. यदा हि स्वस्य गर्हणां करोति, स्वस्य धिक्कियां करोति, तदाऽवहीलावान् भवति. अपुरस्कारगतो जीवोऽप्रशस्तेभ्यः कर्मवंधहेतुभ्यो योगेभ्यो निवर्तते, अप्रशस्तकर्मबंधहेतुयोगान्नांगीकुरुते, प्रशस्तयोगांस्तु प्रतिपद्यते. प्रशस्त
M॥९८२॥
For Private And Personal Use Only