________________
Shri Mahavir Jain Aradhana Kendra
www kobirth.org
Acharya Shri Kalassagarsuri Gyarmandie
%
उत्तरा.
सटीक
॥९८३॥
%%
योगप्रतिपन्नश्च, प्राकृतत्वात्प्रतिपन्नप्रशस्तयोगोंगीकृतसम्यग्योगोऽनगारोऽनंतघातिनःपर्यायान् क्षपयति. अनंतविषयतयाऽनंते ज्ञानदर्शने हंतुं विनाशयितुं शीलं येषां तेऽनंतघातिनः, तान् पर्यायान् ज्ञानावरणादिकर्मणां पर्यवान् परिणतिविशेषान्क्षपयति.॥७॥ आलोचनादीनि सामायिकवत एव भवंतीत्यतस्तत्प्रश्नोत्तरपूर्व फलमाह
॥ मूलम् ॥-सामाइएणं भंते जीवे किं जणयइ ? सामाइएणं सावजजोगविरई कुणइ.॥८॥ व्याख्या हे भदंत ! सामायिकेन समतारूपेण जीवः किं जनयति ? गुरुराह-हे शिष्य ! सामायिकेन सावद्ययोगविरतिं जनयति, कर्मबंधकारणेभ्यः सपापमनोवाकाययोगेभ्यो विरतिं पश्चान्निवर्तनं जनयति. ॥८॥ अथ सामायिकवांश्चतुर्विंशतिजिनस्तुतिं विधते तत्कारकस्य फलं प्रश्नपूर्वमाह
॥ मूलम् ॥-चउवीसत्थएणं भंते किं जणयइ ? चउवीसत्थएणं दसणविसोहिं जणयइ.॥९॥ व्याख्या हे भदंत ! हे स्वामिन् ! चतुर्विंशतिस्तवेन ' लोगस्सुजोयगरे' इत्यादिपठनेन जीवः किं जनयति ? गुरुराह-हे शिष्य ! चतुर्विंशतिस्तवेन दर्शनविशुद्धिं जनयति, सम्यक्त्वनैर्मल्यं करोति.॥९॥
%%*55
5 575%
॥९८३॥
For Private And Personal Use Only