________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥९८१॥
तपसो विक्रयः, ममास्य तपसः फलं स्यात्तर्हि राज्येंद्रादिपदभागहं स्यामिति निदानं. मिथ्यादर्शनं सांशयिकादिविपरीतमतिरूपं, माया च निदानं च मिथ्यादर्शनं च मायानिदानमिथ्यादर्शनानि, तान्येव शल्यानि मायानिदानमिथ्यादर्शनशल्यानि, तेषामुद्धरणं दूरीकरणं करोतीत्यर्थः कीदृशानां मायानिदानमिथ्यादर्शनशल्यानां ? मोक्षमार्गे विनानां विघ्नकारकाणां, पुनः कोदृशानां ? अनंतसंसारवर्धनानां. पुनः ऋजुभावं सरलत्वं जनयति, ऋजुमा प्रतिपन्नोऽपि निश्चयेन, णं वाक्यालंकारे, जीवो मायी मायारहितः सन् स्त्रीवेदं नपुंसकवेदं न बनाति. स्त्रीवेदनपुंसकवेदं चेत्पूर्व बद्धं स्यात्तर्हि निर्जरयति. ॥५॥ आलोचना हि दुःकृतनिंदाकारकस्यैव सफला स्यात् , अतस्तत्फलं प्रश्नपूर्वमाह
॥मूलम् ॥-निंदणयाएणं भंते जीवे किं जणयइ ? निंदणयाएणं पच्छाणुतावं जणयइ, पच्छाणुतावेणं विरज्जमाणे करणगुणसेढिं पडिवजाइ, करणगुणसेढिं पडिवन्ने य अणगारे मोहणियं कम्म उग्घाएइ. ॥६॥ व्याख्या-हे भदंत ! निंदनया जीवः किं जनयति ? गुरुराह हे शिष्य ! आत्मनः पापस्यनिंदनेन पश्चात्तापं जनयति, हा! मया दुष्कृतं कृतं, इत्यादिबुद्धिमुत्पादयति, पश्चात्तापेन विर
४॥९८१॥
For Private And Personal Use Only