________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
उत्तरा
सटीकं
॥८६॥
90000000000000000000
प्राप्तिर्भवेत्. उपलक्षणत्वादन्येारपरेयुरन्यतरेयुर्वा मा वाभूत्, यः साधुरेवं प्रतिसमीक्षते इति चिंतयति, तं साधुमलाभपरीषहो न तर्जयेत्, नाभिभवेत्. ॥ ३१ ॥ अत्र ढंढणकुमारकथा
कस्मिंश्चिद् ग्रामे कोऽपि कृशशरीरी कुटुंबी वसति, अन्येऽपि बहवस्तत्र कुटुंबिनो वसंति, वारकेण ते राजवेष्टिं कुर्वति, राजसत्कपंचशतवाहनानि वाहयंति. एकदा तस्य कृशशरोरिणः पंचशतहलवाहनवारकः समायातः, तेन च वाहिता वृषभाः, भक्तपानवेलायामप्येकोऽधिकश्चाषो दापितस्तदांतरायं कर्म बद्धं. ततो मृत्वासौ बहुकालमितस्ततः संसारे परिभ्रम्य कस्मिंश्चिद्भवे कृतसुकृतवशेन द्वारिकायां कृष्णवासुदेवस्य पुत्रत्वेन समुत्पन्नः, ढंढणेति तस्य नाम प्रतिष्टितं. स ढंढणकुमारः। श्रीनेमिपावेऽन्यदा प्रबजितः, लाभांतरायवशान्महत्यामपि द्वारिकायां हिंडमानो न किंचिदन्नादि लभते, यदि कदाचिल्लभते तदा सर्वथासारमेव. ततस्तेन स्वामी पृष्टः, स्वामिना तु सकलः पूर्वभववृत्तांतस्तस्य कथितः, तेन चायमभिग्रहो गृहीतः परलाभो मया न ग्राह्यः, अन्यदा वासुदेवेन स्वामिनः पृष्टं भगवन्नेतावत्सु श्रमणसहस्रेषु को दुष्करकारकः? स्वामिना ढंढणर्षिरेव दुष्करकारक इत्युक्तं,
1000000000000000000000
॥८६॥
For Private And Personal Use Only