________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ५॥
००००००99999999999996
www.kobatirth.org
वस्तु
तस्तापसाश्रमे गत्वा तिष्ठति, तत्रासन्ननदीकूले आतापनां कुरुते. मार्गसमीपे सार्थं विलोकयति, यदि शुद्धं प्राप्नोति तदाहारं गृह्णाति, नो चेत्तदा तपः करोति, तस्यातापनाप्रभावेण नद्यन्यत्र व्यूढा, ततो लोकैरस्य कूलवालक इति नाम कृतं. इतश्च श्रेणिकपुत्रः कूणिको राजा स्वपत्नीपद्मावतीप्रेरितः स्वभ्रातृहविहलपार्श्वे जनकश्रेणिकार्पितदिव्यकुंडलाष्टादशस रिकहारसेचन कहस्त्यादिकं मार्गितवान् तौ च सर्वं लावा मातामहचेटकमहाराजपा र्श्वे वैशालीनगर्यां गतौ. कूणिकेन मातामहचेटक महाराजपार्श्वात् सर्ववस्तुसहितौ तौ भ्रातरौ मार्गितो, शरणागतवज्रपंजरबिरुदं वहता तेन चेटकमहाराजेन न प्रेषितौ, ततो रुष्टः कूणिकः समाराधितशक्रचमरप्रभावेण स्वजीवितं रक्षन्नमोघवाणेन चेटकमहाराजं संग्रामे निर्जित्य वैशालीनगरीमध्ये क्षिप्तवान् सज्जितवां च वैशाली नगरी कूणिको रोधयतिस्म नगरीमध्यस्थितश्रीमुनिसुव्रतस्वामिस्तूपप्रभावात्तां नगरी ग्रहीतुं न शक्नोति, ततो बहुना कालेन देवतयैवमाकाशे भणितं -
समणे जहकूलवालए । मागहिअं गणिअं रमिस्सए | राया य असोगचंदए । वेसालिं नयरींग
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
9000099999990090666००
सटीकं
॥ ५ ॥