________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandi
उत्तरा
सटीकं
॥४
॥
Du09090090969
ताकारसंपन्नः. एतादृशः शिष्यो विनयवान उच्यते ॥ २॥ अथाविनीतस्य लक्षणमाह
॥मूलम् ॥-आणागिसकरे । गुरुणमुववायकारए ॥ पडिणीए असंबुद्धे । अविणोएत्ति वुच्चइ॥३॥ व्याख्यास शिष्योऽविनीत इत्युच्यते, य आज्ञायास्तीर्थकरवाक्यस्य गुरोर्वाक्यस्य चानिर्देशकरोऽप्रमाणकर्ता ज्ञानविराधकः, पुनयों गुरूणामनुपपातकारको मवति, गुरूणां दृग्विषये स्थितिं न करोति, आदेशभयाद्रं तिष्टतीत्यर्थः. पुनर्यः शिष्यो गुरूणां प्रत्यनीको गुरूणां छलान्वेषी, पुनयोंऽसंबुद्धस्तत्वस्यावेत्ता, एतादृशलक्षणोऽविनीतो भवति. ॥ ३ ॥ अत्र कूलवालकस्य दृष्टांतः-यथा एकस्य आचार्यस्य क्षुल्लकोऽविनीतः, तमाचार्यः शिक्षार्थ वाचा ताडयति, स क्षुल्लको रोषं वहति. अन्यदा आचार्यस्तेन क्षुल्लकेन समं सिद्धशैलं वंदितुं गतः, तत उत्तरत आचार्यस्य वधाय तेन पृष्टस्थितेन क्षुल्लकेन शिला मुक्ता, आयांत्याचार्येण दृष्टा, स्वपादौ प्रसारितो, अन्यथा स आचार्यों मृतोऽभविष्यत्. आचार्येण शापोऽस्मै क्षुल्लकाय दत्तः, हे दुरास्मन् ! त्वं स्त्रीतो विनंक्ष्यसि, अथ स क्षुल्लक आचार्योऽयं मिथ्यावादी भवत्विति विचिंत्य पृथग्भू
COUGGOOGs
जा॥४॥
For Private And Personal Use Only