________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ३ ॥
1400999999999999999ई
www.kobatirth.org
कीदृशस्य भिक्षोः ? अनगारस्य, न विद्यते अगारं गृहं यस्य सोऽनगारोऽगृहः, तस्य नियतवा| सरहितस्य ॥ १ ॥
॥ मूलम् ॥ आणानिदेसकरे । गुरुणमुववायकारए || इंगियाकारसंपन्ने । से विणीयति - च्चइ ॥ २ ॥ व्याख्या—स शिष्यो विनीत इत्युच्यते स इति कः ? यः शिष्य आज्ञायास्तीर्थंकरप्रगीतसिद्धांतवाण्या निर्देश उत्सर्गापवादकथनं तस्य कारको भवति, अथवाज्ञाया गुरुवाक्यस्य निर्देशः प्रामाण्यमाज्ञानिर्देशस्तं करोतीत्याज्ञानिर्देशकरः पुनर्यः शिष्यो गुरुणां समीपे पातः स्थितिस्तत्कारक उपपातकारकः, गुरूणां दृग्गोचरे तिष्ठतीत्यर्थः पुनर्यः शिष्य इङ्गिताकारसंपन्नो भवति, गुरुणामिङ्गितं मानसिकं चेष्टितं जानाति, पुनर्गुरुणामाकारं वाह्यं शरीरचेष्टितं च जानाति, इङ्गितं निपुणमतिगम्यं, प्रवृत्तिनिवृत्तिज्ञापकं ईषद्भूशिरः कंपनादिकं, आकारः स्थूलमतिगम्यश्चलनादिदिशावलोकनादि सूचकः. यदुक्तं - अवलोकनं दिशानां । विजृंभणं शाटकस्य संवरणं ॥ आसनशिथिलीकरणं । प्रास्थितलिङ्गानि चैतानि ॥ १ ॥ तस्माथः शिष्यो गुरोरिङ्गिताकारौ सम्यक् प्रकर्षेण जानातीती
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
000000060963
सटीकं
॥ ३ ॥