________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
000000000000000000000
॥३॥प्राप्तचारुविभवो गिरां गिरः । श्रीगुरोश्च विशदप्रभावतः ॥ वक्ति लक्षम्युपपदस्तु वल्लभः । सज्जना मयि भवंतु सादराः॥४॥ युग्मं ॥ श्रेयसे स्ताद्गुणभृतां । चतुर्दशशतीशतां ॥ श्रीपुंडरीकमुख्यानां । या द्विपंचाशदुत्तरा ॥५॥
॥ मूलम् ॥ संजोगा विप्पमुक्कस्स। अणगारस्स भिक्खुणो ॥ विणयं पाउकरिस्तामि । आ| णुपुत्विं सुणेह मे ॥१॥ व्याख्या-श्रीसुधर्मस्वामी जंबूस्वामिनं वक्ति, जंबूस्वामिनमुद्दिश्य अन्यानपि शिष्यान् वदति, भोः शिष्याः! अहं आनुपूर्व्या अनुक्रमेण भिक्षोभिक्षया मधुकरवृत्त्याहारं गृहीत्वा शरीरधारकस्य साधोविनयं प्रादुःकरिष्यामि, प्रकटीकरिष्यामिः मे मम विनयं प्रकटीकरिष्यतो यूयं वाक्यं श्रुणुत? यतो जिनशासनस्य मूलं विनयधर्म एव, उक्तं च श्रीदशकालिके-विणयाओ | नाणं, नाणाओ देसणमित्यादि. कथंभूतस्य भिक्षोः? संयोगात् बाह्याभ्यंतरभेदेन द्विविधात् विप्रमुक्तस्य विशेषेण रहितस्य, तत्र बाह्यसंयोगौ धनधान्यपुत्रमित्रकलत्रादि, अचित्तसचित्तादिरूपः. अभ्यंतरसंयोगो मिथ्यात्ववेदत्रिकहास्यादिषट्कक्रोधादिचतुष्करूपः. एवंविधद्विविधसंयोगाद्विरतस्य. पुनः
100000000000000000000
For Private And Personal Use Only