________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyarmandir
उत्तरा
॥९६३॥
नत्थि अमोक्खस्स निवाणं ॥३०॥ व्याख्या-अदर्शनिनः सम्यक्त्वरहितस्य ज्ञानं नास्ति, इत्यनेन
सटीकं सम्यक्त्वं विना सम्यग्ज्ञानं न स्यादित्यर्थः. ज्ञानविना चारित्रगुणाः, चारित्रं पंचमहाव्रतरूपं, तस्य गुणाः पिंडविशुद्धयादयः करणचरणसप्ततिरूपा न भवंति. अगुणिनश्चारित्रगुणै रहितस्य मोक्षः कर्मक्षयो नास्ति, अमोक्षस्य कर्मक्षयरहितस्य निर्वाणं मुक्तिसुखप्राप्ति स्ति. ॥ ३०॥ अथ सम्यक्त्वस्याष्टावाचारानाह
॥ मूलम् ॥-निस्संकिय निकंखिय । निवितिगिच्छा अमूढदिट्टी य ॥ उववूहथिरीकरणे । व-| च्छल्लपभावणे अट्ट ॥ ३१ ॥ व्याख्या-निःशंकितत्वं देशतः सर्वतश्च शंकारहितत्वं, पुनर्निःकांक्षितत्वं शाक्याद्यन्यदर्शनग्रहणवांछारहितत्वं. निर्विचिकित्स्यं फलंप्रति संदेहकरणं विचिकित्सा, निर्गता विचिकित्सा निर्विचिकित्सा, तस्या भावो निर्विचिकित्स्यं. किमेतस्य तपःप्रभृतिक्लेशस्य फलं वर्तते
न वेति लक्षणं. अथवा विदंतीति विदः साधवः, तेषां विजुगुप्सा, किमेते मलमलिनदेहाः? अचित्त5 पानीयेन देहं प्रक्षालयतां को दोषः स्यादित्यादिनिंदा, तदभावो निर्विजुगुप्स्यं. प्राकृतार्षत्वात्सूत्रे
४॥९६३॥
For Private And Personal Use Only