________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
॥९६४॥
RECACACCHRUGACKGAR
निर्विचिकित्स्यमिति पाठः, अमूढा दृष्टिरमूढदृष्टिः, ऋद्धिमत्कुतीथिकानां परिव्राजकादीनामृद्धिं दृष्ट्वाडमूढा, किमस्माकं दर्शनं? यत्सर्वथा दरिद्राभिभूतं, इत्यादिमोहरहिता दृष्टिर्बद्धिरमूढदृष्टिः, यत्परतीर्थिनां भूयसीमृद्धिं दृष्ट्वापि स्वकीयेऽकिंचने धमें मतेः स्थिरीभावः. अयं चतुर्विधोऽप्याचारोंतरंग उक्तः. अथ ब्राह्याचारमाह-उपबृंहणा दर्शनादिषु गुणवतां प्रशंसा. पुनः स्थिरीकरणं, धर्मानुष्टानंप्रति सीदतां। धर्मवतां पुरुषाणां साहाय्यकरणेन धर्मे स्थिरीकरणं. पुनर्वात्सल्यं साधर्मिकाणां भक्तपानोयभक्तिकरणं. पुनः प्रभावना च वतीर्थोन्नतिकरणं. एतेऽष्टावाचाराः सम्यक्त्वस्य ज्ञेया इत्यर्थः. ॥ ३१ ॥ अथ | चारित्रभेदानाह| ॥ मूलम् ॥–सामाइयत्थ पढमं । छेओवठ्ठावणं भवे बोयं ॥ परिहारविसुद्धीयं । सुहुमं तह
संपरायं च ॥ ३२ ॥ अकसायमहक्खायं । छउमत्थस्स जिणस्स वा ॥ एवं चयरित्तकरं । चारितं होइ | आहियं ॥३३॥ युग्मं ॥ व्याख्या-अथ प्रथमं सामायिकं चारित्रं ज्ञेयं. समो रागद्वेषरहितश्चित्तपरिणामः, तस्मिन् समेऽयो गमनं समायः, समाय एव सामायिकं. अथवा समानां ज्ञानदर्शनचारित्रा
RECENTRY
For Private And Personal Use Only