________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
॥९१२॥
दयात्पुनः सम्यक्त्वं वांतं, ते व्यापन्नदर्शना निहवादयः. तथा कुत्सितं दर्शनं येषां ते कुदर्शनाः शाक्यादयः. व्यापन्नदर्शनाश्च कुदर्शनाश्च व्यापन्नकुदर्शनाः, तेषां वर्जनं व्यापन्नदर्शनकुदर्शनवर्जनं. एतदपि सम्यक्त्वलक्षणं ज्ञेयं. यः सम्यक्त्ववान् भवति, स निवैः कलिंगिभिश्च परिचयं न करोति.
॥ मूलम् ॥–नत्थि चरितं सम्मत्त-विहणं दंसणे उ भवियत्वं ॥ सम्मत्तचरित्ताई। जुगवं पुवं च सम्मतं ॥ २९ ॥ व्याख्या-सम्यक्त्वमाहात्म्यमाह-हे शिष्य ! सम्यक्त्वविहीनं चारित्रं नास्ति, सम्यक्त्वेन विना चारित्रं नासीत् , न भविष्यति नास्ति च. कोऽर्थः? यावत्सम्यक्त्वं नोत्पद्यते तावञ्चारित्रं न स्यात्. तु पुनदर्शने तु सम्यक्त्वे तु चारित्रेण भवितव्यं. अथवा सम्यक्त्वे चारित्रं भक्तव्यं भजनीयं. सम्यक्त्वं च चारित्रं च सम्यक्त्वचारित्रे, युगपदेककालमुत्पद्यते इति शेषः. तथापि तत्रानुक्रमोऽस्ति. पूर्व सम्यक्त्वं पश्चाच्चारित्रमुत्पद्यते. सम्यक्त्वचारित्रयोर्यगपदत्पादेऽप्ययं नियमोऽस्तीति भावः ॥ २९ ॥ पुनरपि तदेवाह
॥ मूलम् ॥-नादसणस्स नाणं । नाणेण विणा न होइ चरणगुणा ॥ अगुणस्त नत्थि मुक्खो।
555555SARASHIS
॥९६२॥
For Private And Personal Use Only