________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
॥९६१॥
ख्यातादिकं जिनोक्तं श्रद्दधाति, न तु यो धर्मादीनां लक्षणं पाखंडिभिरुक्तं श्रद्धत्ते. अत्र हि पृथगुपाधिभेदेन सम्यवत्वभेदकथनं शिष्यव्युत्पादनार्थ. अन्यथा तु निसर्गरुचिरुपदेशरुचिश्च, एतावुभौ भेदा| वभिगमरुचावेवांतर्भवतः. ॥ २७ ॥ अथ सम्यक्त्वलिंगान्याह
॥ मूलम् ॥-परमत्थसंथवो वा। सुदिपरमत्थसेवणा वावि ॥ वावन्नकुदंसणवज-णा य | सम्मत्तसद्दहणा ॥ २८ ॥ व्याख्या-एतत्सम्यक्त्वश्रद्धानं सम्यक्त्वस्य लक्षणं सम्यक्त्ववतः पुरुषस्य चिन्हं ज्ञेयं. किं तल्लक्षणं? परमार्थसंस्तवः, परमाश्च तेऽर्थाश्च परमार्था जीवादितत्वानि, तेषां परम| र्थानां जीवादिभावानां संस्तवः स्वरूपज्ञानादुत्पन्नपरिचयः परमार्थसंस्तवः, एतत्प्रथमं सम्यक्त्ववतो लक्षणं. वाशब्दः पदपूरणे. वाऽथवाऽन्यल्लक्षणमिदं. सुदृष्टपरमार्थसेवनं. सुष्टु यथास्वरूपं दृष्टाः दर्शिता वा परमार्था जीवादयो यैस्ते सुदृष्टपरमार्था गीतार्थाः, तेषां सेवनं सुदृष्टपरमार्थसेवनं. बहु| श्रुतानामाचार्यादीनां यथाशक्ति वैयावृत्त्यस्य करणं, एतदपि सम्यक्त्वलक्षणं. च पुनापन्नकुदर्शनवर्जनं, व्यापन्नं विनष्टं दर्शनं येषां ते व्यापन्नदर्शनाः, यैः पूर्व सम्यक्त्वं लब्ध्वा सम्यक्त्वघातकर्मो
समस्का
For Private And Personal Use Only