________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ९५८ ॥
www.kobatirth.org.
जानातीत्यर्थः कस्मिन् क इव ? उदके तैलबिंदुरिव यथोदकस्यैकदेशतो गतोऽपि तैलबिंदु: सर्वमुदकमाक्रामति, तथा तत्वैकदेशोत्पन्नरुचिरप्यात्मा तथाविधक्षयोपशमादशेषेषु तत्वेषु रुचिमान् भवति, | स एवंविधो बीजरुचिर्ज्ञातव्य इत्यर्थः यथा वीजमेकमपि क्रमेणानेकबीजानां जनकं स्यात्, तथास्यापि रुचिर्विषयभेदतो रुच्यंतराणां जनयित्री स्यादिति भावः ॥ २२ ॥ अथाभिगमरुचेः स्वरूपमाह -
॥ मूलम् ॥ सो होइ अभिगमरुई । सुअनाणं जेण अत्थओ दिहं । एक्कारसमंगाई | पन्नगं दिट्टिवाओ य ॥ २३ ॥ व्याख्या - सोऽभिगमरुचिर्भवति, स इति कः ? येन श्रुतज्ञानमर्थतोऽर्थमाश्रित्य दृष्टं येन श्रुतज्ञानस्यार्थोऽधिगतो भवति किं तत् श्रुतज्ञानमित्याह-एकादशांगान्याचारांगादीनि तथा प्रकीर्णकमिति जातित्वादेकवचनं प्रकीर्णकान्युत्तराध्ययनादीनि, दृष्टिवादः परिकर्मसूत्रादिः, शब्दादुषांगान्युपपातिकादीनि सर्वाणि येनार्थतो ज्ञातानि भवंति सोऽभिगमरुचिर्भवतीत्यर्थः. ॥ २३ ॥ अथ विस्ताररुचेः स्वरूपमाह-
॥ मूलम् ॥ -- वाण सवभावा । सवपमाणेहिं जस्स उवलद्धा ॥ सव्वाही नयवोहीहि य | वित्था
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
| ॥ ९५८ ॥