________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
ररुइत्ति नायबो ॥ २४ ॥ व्याख्या-स विस्ताररुचिरिति ज्ञातव्यः. स इति कः? यस्य पुरुषस्य द्रव्याणां धर्मास्तिकायादीनां सर्वे भावाः, एकत्वपृथक्त्वसंयोगविभागादिसमस्तपर्यायाः सर्वप्रमाणैः प्रत्यक्षानुमानोपमानागमैश्च पुनः सर्वैर्नयविधिभिनेंगमसंग्रहव्यवहारऋजुसूत्रशब्दसमभिरूद्वैवंभूतैरुपलब्धा यथारूपेण ज्ञाताः संति, स विस्ताररुचिर्विज्ञेय इत्यर्थः ॥ २४ ॥ अथ क्रियारुचिखरूपमाह
॥ मूलम ॥-दसणनाणचरित्ते । तवविणए सच्चसमिइगुत्तीसु । जो किरिया भावरुई । सो खलु किरियारूई नाम ॥ २५ ॥ व्याख्या-स खलु निश्चयेन क्रियारुचिर्नाम प्रसिद्धा ज्ञेयः स इति क? यः पुरुषो दर्शनज्ञानचारित्रे, तथा तपोविनये क्रियाभावरुचिर्भवति, तथा सत्यसमितिगुप्तिषु क्रियाभावरुचिर्भवति. दर्शनं च ज्ञानं च चारित्रं च दर्शनज्ञानचारित्रं, तस्मिन्. तपांसि च विनयाश्च तेषां समाहारस्तपोविनयं, तस्मिंस्तपोविनये. तपस्सु द्वादशविधेषु, तथा विनयेष्वाचार्यादीनां भक्तिषु, तथा सत्या याः समितयः सत्यसमितयस्तासु सत्यसमितिषु. क्रियायां दर्शनज्ञानचारित्रतपोविनयसत्यसमितीनामाराधनानुष्टानविधो भावेन रुचिर्यस्य स क्रियाभावरुचिः ॥२५॥ अथ संक्षेपरुचिस्वरूपमाह
5-5455ASSASA
॥९५९ ॥
For Private And Personal Use Only