________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
॥९५६॥
नसि धारयति, पुनर्यो जिनोक्तेषु तत्वेष्वेवमेवैतत्, यथा जिनदृष्टं जीवादि तत्तथैवेति, नान्यथेति
सटीकं बुद्धिं कुरुते, स निसर्गरुचिरुच्यते. ॥ १८ ॥ अथोपदेशरुचेः स्वरूपमाह
॥ मूलम ॥-एए चे हु भावे । उवइठे जो परेण सदहई ॥ छउमत्थेण जिणेण य । उवए| सरुइत्ति नायवो ॥ १९ ॥ व्याख्या-स उपदेशरुचिरिति ज्ञातव्यः, स इति कः? य एतांश्चैव भावान् जीवाजोवादीन् परेणान्येन छद्मस्थेन, वाऽथवा जिनेन केवलिना तीर्थकरेणोपदिष्टान् श्रद्दधाति, हुशब्दो निश्चये, चेवशब्दः पदपरणे. ॥ १९ ॥ अथाज्ञारुचेः स्वरूपमाह
॥ मूलम् ॥--रागो दोसो मोहो । अन्नाणं जस्स अवगयं होइ ॥ आणाए रोयंतु । सो खलु आणाई नाम ॥ २०॥ व्याख्या-स खलु निश्चयेनाज्ञारुचिर्नामेति प्रसिद्धो भवति. स इति कः? | यस्य रागः स्नेहः, द्वेषोऽप्रीतिः, मोहः शेषमोहनोयप्रकृतयः, अज्ञानं मिथ्यात्वरूपं, एतत्सर्व नष्टं भवति, अस्य देशतोऽपगतं गम्यते, न सर्वतः, अपगतशब्दस्य प्रत्येकं संबंधः. यस्य रागो देशतोऽपगतः. यस्य द्वेषोऽपि देशतोऽपगतः, यस्य मोहोऽपि देशतोऽपगतः, यस्याज्ञानं देशतोऽपगतं, एतेषामपगमा
M९५६॥
For Private And Personal Use Only