________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyarmandie
उत्तरा
॥९५४॥
SAKO
| स्थाररुई ७ । किरिया ८ संखेव ९ धम्मई १०॥ १६ ॥ व्याख्या-एते दश भेदाः सम्यक्त्वस्य
सटीकं ज्ञेयाः. तत्र प्रथमो निसर्गरुचिः, निसर्गः स्वभावस्तेन रुचिस्तत्वानामभिलाषो यस्य स निसर्गरुचिविज्ञेयः १. द्वितीय उपदेशरुचिः, उपदेशेन गुरूक्तेन रुचिर्यस्य स उपदेशरुचिः, यदा गुरुधर्ममुपदिशति, तदैकाग्रचित्तो यः शृणोति स उपदेशरुचिह्नितीयो ज्ञेयः २. तृतीय आज्ञया सर्वज्ञवचनेन रुचि| यस्य स आज्ञारुचिर्विज्ञेयः ३. सूत्रेणागमेनैव रुचिर्यस्य स सूत्ररुचिश्चतुर्थों ज्ञेयः ४. पंचमो बीज| रुचिः, बीजेन रुचिर्यस्य स बीजरुचिः, बीजं ह्येकमप्यनेकार्थप्रबोधकं वचनं, तेन रुचिर्यस्येति बोजरुचिः, ५. अभिगमरुचिः षष्टः, अभिगमेन ज्ञानेन रुचिर्यस्य सोऽभिगमरुचिः ६. सप्तमो विस्ताररुचिः, विस्तारेण रुचिर्यस्य स विस्ताररुचिः ७ तथा कियारुचिः, क्रियया धर्मानुष्ठानेन रुचिर्यस्य स क्रियारुचिरष्टमो ज्ञेयः. ८. तथा संक्षेपरुचिः, संक्षेपेण संग्रहेण रुचिर्यस्य स संक्षेपरुचिर्नवमः ९. तथा धमेंण श्रुतधर्मेण रुचिर्यस्य स धर्मरुचिः, श्रुतधर्माभ्यासरुचिर्दशमः १० यद्यपि सम्यक्त्वस्य जीवाभेदो । नास्ति, जीवस्य स्वरूपं सम्यक्त्वं, तथापि लक्ष्यलक्षणयोर्गुणगुणिनोः कथनमात्रेण कथंचिभेदोऽप्य
४॥९५४॥
For Private And Personal Use Only