________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीकं
॥९५३॥
जोवकर्मणोः संश्लेषः, पुण्यं शुभप्रकृतिरूपं, पापमशुभं मिथ्यात्वादि, आश्रवः कर्मबंधहेतुहिंसामृषाऽदत्तमैथुनपरिग्रहरूपः, तथा संवरः समितिगुप्त्यादिभिराश्रवद्वारनिरोधः, निर्जरा तपसा पूर्वार्जितानां कर्मणां परिषाटनं. मोक्षः सकलकर्मक्षयादात्मस्वरूपेणात्मनोऽवस्थानं. एते नवसंख्याकास्तथ्या अवितथा भावाः संतीति संबंधः. नवसंख्यात्वं ह्येतेषां भावानां मध्यमापेक्षं. जघन्यतो हि जीवाजीवयो| रेव बंधादीनामंतर्भावाद् द्वयोरेव संख्यास्ति. उत्कृष्टतस्तु तेषामुत्तरोत्तरभेदविवक्षयाऽनंतत्वं स्यात्.१४
॥ मूलम् ॥-तहियाणं तु भावाणं । सप्भावे उवएसणं ॥ भावेण सदहंतस्स । सम्मत्तं तं वियाहियं ॥ १५॥ व्याख्या-अर्हद्भिस्तस्य पुरुषस्य सम्यक्त्वं सम्यग्भावोऽर्थादर्शनं व्याख्यातं कथित-4 मित्यर्थः कीदृशस्य पुरुषस्य ? तथ्यानां सत्यानां भावानां जीवाजीवादितत्वानां सद्भावेसद्भावविषये उपदेशेन गुरूणां शिक्षावाक्येन भावेन शुद्धमनसा श्रद्दधानस्य, तथेत्यंगीकुर्वाणस्य. यो हि जीवादिपदार्थान् सम्यग्जानाति, भावेन च श्रद्दधाति, स पुमान् सम्यक्त्ववानित्यर्थः ॥ १५ ॥ अथ सम्यक्त्वभेदानाह
॥ मूलम् ॥—निस्सग्गु १ वएसरूई २। आणारुइ ३ सुत्त ४ बीयरुइमेव ५॥ अभिगम ६ वि
For Private And Personal Use Only