________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ९५९ ॥
www.kobatirth.org
च यः ज्ञायते स जीव उच्यते १०. पुनर्लक्षणांतरमाह -
॥ मूलम् ॥ नाणं च दंसणं चेव । चरितं च तवो तहा ॥ वीरियं उवओगो य ॥ एवं सक्ख ॥ ११ ॥ व्याख्या - ज्ञानं ज्ञायतेऽनेनेति ज्ञानं च पुनर्द्दश्यतेऽनेनेति दर्शनं, च पुनश्चारित्रं क्रियाचेष्टादिकं, तथा तपो द्वादशविधं, तथा वीर्यं वीर्यांतरायक्षयोपशमादुत्पन्नं सामर्थ्य, पुनरुपयोगो ज्ञानादिष्वेकाग्रत्वं, एतत्सर्वं जीवस्य लक्षणं ॥ ११ ॥ अथ पुद्गलानां लक्षणमाह
॥ मूलम् ॥ — संबंधयारउज्जोओ । पहा छायातवोवि य ॥ वन्नगंधरसा फासा । पुग्गलाणं तु लक्खणं ॥ १२ ॥ व्याख्या - शब्दो ध्वनि रूपपोद्गलिकः, तथांधकारं, तदपि पुद्गलरूपं, तथोद्योत रत्नादीनां प्रकाशः, तथा प्रभा चंद्रादीनां प्रकाशः, तथा छाया वृक्षादीनां छाया शैत्यगुणा, तथाऽातपो वेरुष्णप्रकाशः, इति पुद्गलस्वरूपं च शब्दः समुच्चये. वर्णगंधरसस्पर्शाः पुद्गलानां लक्षणं ज्ञेयं. वर्णाः शुक्लपीतहरितरक्त कृष्णादयः, गंधो दुर्गंधसुगंधात्मको गुणः रसाः षट् तिक्तकटुककषायाम्लमधुरलवणाद्याः स्पर्शाः शीतोष्णखर मृदुस्निग्धरूक्षलघुगुर्वादयः एते सर्वेऽपि पुद्गलास्तिकायस्कंधलक्षणवा
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
॥ ९५९ ॥