________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
॥९५०॥
ACARGAHRAICH
एकस्माद्देशाजीवपुद्गलयोदेशांतरंप्रति गमनं गतिः, गतिरेव लक्षणं यस्य स गतिलक्षणः. अधर्मोऽधर्मास्तिकायः स्थितिलक्षणो ज्ञेयः, स्थितिः स्थानं गतिनिवृत्तिः, सैव लक्षणमस्येति स्थानलक्षणोऽधर्मास्तिकायो ज्ञेयः. स्थितिपरिणतानां जीवपुद्गलानां स्थितिलक्षणकार्येण ज्ञायते सोऽधर्मास्तिकायः.
यत्पुनः सर्वद्रव्याणां जीवादीनां भाजनमाधाररूपं नभ आकाशमुच्यते, तच्च नभोऽवगाहलक्षणं. | अवागाढं प्रवृत्तानां जीवपुद्गलानामालंबो भवतीत्यवगाहोऽवकाशः, स एव लक्षणं यस्य तदवगाहलक्षणं नभ उच्यते.॥९॥
॥ मूलम् ॥-वत्तणालक्खणो कालो। जीवो उवओगलक्खणो ॥ नाणेणं दसणेणं च । सुहेण य दुहेण य॥ १०॥ व्याख्या-वर्ततेऽनवच्छिन्नत्वेन निरंतरं भवतीति वर्तना, सा वर्तनैव लक्षणं लिंगं यस्येति वर्तनालक्षणः काल उच्यते. तथोपयोगो मतिज्ञानादिकः, स एव लक्षणं यस्य स उपयोगलक्षणो जीव उच्यते. यतो हि ज्ञानादिभिरेव जीवो लक्ष्यते, उक्तलक्षणत्वात्. पुनर्विशेषलक्षणमाह-ज्ञानेन विशेषावबोधेन, च पुनदर्शनेन सामान्यावबोधरूपेण, च पुनः सुखेन, च पुनःखेन
॥९५०॥
For Private And Personal Use Only