________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
एवाभिनिबोधिकं. आभिनिबोधिकशब्देन मतिज्ञानमुच्यते. पंचेंद्रियैः समनस्कैरुत्पन्नमित्यर्यः, तृतीयमवधिज्ञानं, अवेत्यधोऽधो विस्तारभावेन धावतीत्यवधिर्मर्यादा, अवधिनोपलक्षितं ज्ञानमवधिज्ञानमुच्यते. कोऽर्थः? यद् ज्ञानं मर्यादासहितं स्यात् , तत्तृतीयं ज्ञानं. अथ चतुर्थं मनोज्ञानं, मनःशब्देन मनोद्रव्यपर्यायाः, तेषु मनोद्रव्यपर्यायेषु मनोद्रव्यपर्यायाणां नामभेदकारणज्ञानं मनोज्ञानं. यस्य कस्यचिन्मनःपुद्गला याक्खभावेन वर्तते, तेषां तादृप्रकारेण ज्ञानं मनःपर्यायज्ञानमित्यर्थः. पंचम केवलमेकं सकलमनंतं च ज्ञानं केवलज्ञानं, केवलं च तद् ज्ञानं च केवलज्ञानं, यस्योदये सत्यन्येषां ज्ञानानामकिंचित्करवं भवतीति भावः. यद्यपि नंदीसूत्रादौ पूर्व मलिज्ञानमुक्तं, अन बादौ श्रुतग्रहणं कृतं, तच्छेषज्ञानानां स्वरूपं श्रुतज्ञानेनैव ज्ञेयत्वात्सर्वाण्यपि ज्ञानानि श्रुतज्ञानानीत्यर्थः. ॥ ४॥
॥ मूलम् ॥-एयं पंचविहं नाणं । दवाण य गुणाण य॥पजवाणं च सवेसिं । नाणं नाणीहि | देसियं ॥५॥ व्याख्या-एतत्पंचविधं ज्ञानं सर्वेषां द्रव्याणां गुणानां पर्यायाणां च यद् ज्ञानं तद् ज्ञानिभिः केवलिभिर्देशितं कथितं. ज्ञायते यत्तद् ज्ञानमिति भावव्युत्पत्तिः ॥५॥अथ द्रव्यलक्षणमाह.
AASAS5
॥९४७॥
For Private And Personal Use Only