________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
उत्तरा॥९४८॥
HASSASAHRty
॥ मूलम् ॥-गुणाणमासयो दव्वं । एगदबसिया गुणा ॥ लक्खणं पजवाणं तु । उभओ अस्सिया भवे ॥६॥ व्याख्या-गुणानां रूपरसस्पर्शादीनामाश्रयः स्थानं द्रव्यं, यत्र गुणा उत्पद्यतेऽवतिष्टंते विलीयंते च तद् द्रव्यं, इत्यनेन रूपादिवस्तु द्रव्यात् सर्वथाऽतिरिक्तमपि नास्ति. द्रव्ये एव रूपादिगुणा लभ्यंत इत्यर्थः. गुणा ह्येकद्रव्याश्रिताः, एकस्मिन् द्रव्ये आधारभृते आधेयत्वेनाश्रिता एकद्रव्याश्रितास्ते गुणा उच्यते. इत्यनेन ये केचिद् द्रव्यमेवेच्छंति, तद्वयतिरिक्तान रूपादींश्चेच्छंति, तेषां मतं निराकृतं, तस्माद्पादीनां गुणानां द्रव्येभ्योऽभेदोप्यस्ति. तु पुनः पर्यायाणां नवपुरातनादिरूपाणां भावानामेतल्लक्षणं ज्ञेयं. एतल्लक्षणं किं ? पर्याया ह्युभयाश्रिता भवेयुः, उभयोर्द्रव्यगुणयोराश्रिता उभयाश्रिताः, द्रव्येषु नवीननवीनपर्याया नाम्नाशकृत्या च भवंति. गुणेष्वपि नवपुराणादिपर्यायाः प्रत्यक्षं दृश्यते एव. ॥ ६ ॥ पूर्व द्रव्यभेदानाह
॥ मुलम् ॥-धम्मो १ अधम्मो २ आगास ३ । कालो ४ पुग्गल ५ जंतलो ६ ॥ एस लोगुत्ति | पन्नतो। जिणेहिं वरदंसिहि ॥ ७॥ व्याख्या-धर्म इति धर्मास्तिकायः १, अधर्म इत्यधर्मास्तिकायः.२
-3453454 45+5+5+5+XX
॥९४८॥
For Private And Personal Use Only