________________
Shri Mahavir Jain Aradhana Kendra
www kobirth.org
Acharya Shri Kalassagarsuri Gyarmandie
उत्तरा
सटीक
॥९४५॥
OMRESHWAROSAGE
कीदृशीं? ' तच्चं' इति तथ्यामवितथा सत्यां तत्वरूपां, पुनः कीदृशीं? चतुर्भिः कारणैः संयुक्तां चतुः
कारणसंयुक्तां, पुनः कीदृशीं ? ज्ञानदर्शनलक्षणां, ज्ञानं च दर्शनं च लक्षणं स्वरूपं यस्याः सा ज्ञानका दर्शनलक्षणा, ता. ॥१॥ अथ तानि चतुःकारणान्याह
॥मूलम् ॥-नाणं च दंसणं चेव । चरितं च तवो तहा ॥ एय मग्गे सुपन्नत्ते । जिणेहि वरदसिहिं ॥२॥ व्याख्या-एष चतुःकारणरूपो मोक्षमागों जिनैः केवलिभिस्तीर्थकरैश्च प्रज्ञप्तः कथितः, कीदृशैर्जिनैः? वरदर्शिभिः, वरमव्यभिचारित्वेन वस्तुस्वरूपं दृष्टुं शीलं येषां ते वरदर्शिनः, तैर्वरदशिभिः, सम्यग्ज्ञानदर्शनवनिरित्यर्थः. अथ चतुर्णा कारणानां नामानि-प्रथमं कारणं ज्ञानं, यथास्वरूपस्थानां वस्तूनां विशेषेणावबोधो ज्ञानं, ज्ञायतेऽनेनेति ज्ञानं, तदिह सम्यग्ज्ञानमुच्यते. च पुनद्वितीयं कारणं दर्शनं, वस्तूनां यथास्वरूपस्थानां सामान्यप्रकारेणावबोधो दर्शनं, दृश्यतेऽनेनेति दर्शनं, तदप्यत्र सम्यग्दर्शनमुच्यते. चैवशब्दः पादपूरणे. विशेषावबोधात्मकं ज्ञानं, सामान्यावबोधात्मकं दर्शनमिति ज्ञानदर्शनयो दः. च पुनस्तृतीयं कारणं चारित्रं, चर्यते प्राप्यते मोक्षोऽनेनेति चरित्र
GARHKARS
For Private And Personal Use Only