________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
॥९४३॥
COLORORSCOPEACOCKM
ईभा भवंति. अत्र गलिगभदृष्टांतेन शिष्याणामत्यंतनिंदा सूचिता. ते हि गलिगईभाः स्वरूपसोडप्यतिप्रेरणयैव प्रवर्तते, तेषां तथैव कालो याति. ततः गर्गाचार्यों गलिगभसदृशान् कुशिष्यांस्त्य| क्त्वा दृढं यथास्यात्तथा तपो बाह्यमभ्यंतरं च प्रगृह्णाति, प्रकर्षणांगीकरोति. तु शब्दः पदपूरणे. यदैतान् कुशिष्यानहं न त्यक्ष्यामि, तदा मदीयः कालः क्लेशे एव प्रयास्यतीत्याचार्यों विचारयति. १७
॥ मूलम ॥-मिउमद्दवसंपन्ने । गंभीरे सुसमाहिए ॥ विहरइ महिं महप्पा । सीलभूएण अ| प्पणेत्तिबेमि ॥ १७॥ व्याख्या-स गार्ग्य आचार्यस्तदेदृशः सन् महीं पृथिवीं ग्रामानुग्रामं विहरति. कीदृशः सः? मृदुर्बहिर्वत्त्या विनयवान्. पुनः कीदृशः? मार्दवसंपन्नोंतःकरणेऽपि कोमलतायुक्तः, पुनः कीदृशः? गंभीरोऽलभ्यमध्यः, पुनः कीदृशः? सुसमाहितः, सुतरामतिशयेन समाधिसहितः, पुनः कीदृशः? शीलभूतेनात्मनोपलक्षितः. शीलं चारित्रं भूतः प्रातो यः स शीलभूतः, तेन शीलभूतेन, शीलयुक्तेनात्मना सहितः. यतो हि खलुंकत्वं कुशिष्यत्वं, तत्त्वविनीतत्वं, तच्च स्वस्य गुरोश्च दोषहेतुरस्ति, अतोऽविनीतत्वं त्यक्त्वा विनीतत्वमंगीकर्तव्यमिति भावः. इत्यहं ब्रवीमीति सुधर्मास्वामी जंबू
॥९४३॥
For Private And Personal Use Only