________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥८३॥
00000000000000000000
कष्टमित्याह–से इति तस्य भिक्षोः सर्व वस्तु याचितं सद्भवति, अयाचितं गृहस्थादमार्गितं किंचिदपि नास्ति, तस्माद्धिकष्टं भिक्षुजीवितमिति. पुनस्तदेव दृढयति-गोयरेति' गोचराग्रप्रविष्टस्य भिक्षार्थं प्रविष्टस्य साधोः पाणिर्हस्तः पिंडग्रहणार्थं न सुप्रसार्यः, गौरिव चरति यस्मिन् स गोचरः, गोचरेऽयं प्रधानपिंडग्रहणं गोचराग्रं, तन्निमित्तं प्रविष्टस्य गृहस्थगृहे प्रस्थितस्य भिक्षायां करप्रसारणं दुःकरं भिक्षामार्गणं दुष्करं, को नित्यं सम्यग्वपुष्मान्नरः भिक्षा मार्गयति ? तस्मादागारवासो गृहवासः श्रेयानिति भिक्षुर्मनसि न चिंतयेत्, यथारण्ये याश्चापरीषहो दुस्सहो न तथा श्रीमद्गृहाकीणे पुरे, अतः स्त्रीणां निजरूपकृतमनर्थ दृष्ट्वा बलदेवर्षिः पुरप्रवेश निषेभ्य यत एव याश्चापरीषहं सोढवान. तत्कथा यथा
द्वारिकानगर्यामेकदा श्रीनेमिः समवसृतः, कृष्णेन द्वारिकाक्षयस्वमरणकारणं पृष्टं, नेमिना मद्य| पानविकलीभूतत्वत्कुमारोपसर्गसमुद्भूतक्रोधाद्वीपायनाद् द्वारिकाक्षयस्त्वन्मरणं च त्वद्भातृव्यजराकुमारादेवेति प्रोक्तं, वासुदेवेन द्वारिकायां निषिद्धमपि मद्यपानं भवितव्यतावशेन कृष्णपत्रः
4600 RT TÊN NGÀNH
॥८३॥
For Private And Personal Use Only